पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थाध्यायै प्रथमः पादः । १५७ अत्यायमध्याय आरभ्यते । तत्र पूर्व मोक्षे विशेषाभाव उक्तः । तथा श्रवणादावा- वृत्तिविशेषो नास्तीति दृष्टान्तीवान्तरसङ्गत्येदमधिकरणमाह- आवृत्तिरसकृदुपदेशात् ॥ १॥ अत्र पूर्वपक्षे श्रवणादेः प्रयाजा दिवदहष्टार्थत्वात् सकृदनुष्ठानं, सिद्धान्ते त्ववघातवद्यावत्फलमावृत्तिरिति फलभेदः । पूर्व साक्षादेव श्रुत्युक्तं संन्यासादिसा- धनं विचिन्तितम् । सम्प्रति फलार्थापंत्तिगम्यमावृत्त्यादिकमघाश्लेषाधिकरणात् प्राक् चिन्त्यते । तत्रास्याधिकरणस्य श्रवणादिसाधनं विषयः । तत् किं सकृदेव कर्तव्य- मुँत तस्यावृत्तिः कर्तव्येति विशये सकृदेवेति पूर्वः पक्षः । सिद्धान्तस्तु षड्जादि- स्वरसाक्षात्कारवद् दुर्विज्ञेयात्मसाक्षात्कारस्यावृत्तिविशिष्टश्रवणादिसाध्यतया तदावृ- त्तिरेव कर्तव्या । कुतः, 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' (वृ. ४-५-६.) इत्याद्यसकृदुपदेशात् । एवं 'वेद' 'उपासीते' त्यावृत्तिश्रवणा दुपास्यसाक्षात्कार्रफल - हेतुषूपासनेष्यावृत्तिर्बोध्या ॥ १ ॥ किश्च लिङ्गाच्च ॥ ॥ २ ॥ ‘रश्मींस्त्वं पर्यावर्तयाद्’ (छा. १-५-२) इति रश्मिबहुत्वोपासनं विदध- द्वाक्यं प्रत्ययावृत्तिं दर्शयति । अतस्तल्लिङ्गात् तन्न्यायात् साक्षात्कारसाधनेष्वावृत्तिः कर्तव्येत्यर्थः ॥ २ ॥ २ आत्मत्वोपासनाधिकरणम् # पूर्वत्र श्रवणादेरावृत्तिरुक्ता । तामुपजीव्य किञ्चिद्विचार्यत इत्युपजीव्योप- जीवकभावसङ्गत्येदमाह- १. 'न्तादवा' क. पाठ:. ४. 'रद्वारा फ' ख. पाठः, आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥ अत्र पूर्वपक्षे श्रुतीनामभेदपराणां गौणार्थत्वं, सिद्धान्ते मुख्यार्थत्वमिति फलभेदः । तत्र किं श्रवणाद्यावृत्तिकाले प्रत्यक्त्वेन ब्रह्म ध्यातव्यमुत भिन्नत्वेनेति विशये नाहमीश्वर इति प्रत्यक्षविरोधाद् भिन्नत्वेनेति पूर्वः पक्षः । सिद्धान्तस्तु औत्मेत्येव ब्रह्म ध्यातव्यम् । तथा हि जाबाला आत्मत्वेन ब्रह्माभ्युपगच्छन्ति 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि' इति । तथा ग्राहयन्ति च २. 'नं चि' ख. पाठः. ३. 'मुता' क. पाठ: ५. 'आत्मत्वेन ब्र' ख. पाठः,