पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां

  • ११ अनारब्धकार्याधिकरणम् *

पूर्व ज्ञानात् कर्मक्षय उत्सर्गत उक्तः । तस्येह प्रारब्धकर्मव्यतिरिक्तविष- यत्वेनापवादः क्रियत इत्युत्सर्गापवाद सङ्गत्येदमाह -- अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥ w अत्र पूर्वपक्षे जीवन्मुक्त्यसिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः । अत्राना- रब्धकर्मवदारब्धे पुण्यपापे ज्ञानान्नश्यत उत नेति सन्देहे 'क्षीयन्ते चास्य कर्माणी' - (मु.२-२-८)त्यविशेषश्रवणांन्नश्यत इति पूर्वः पक्षः । सिद्धान्तस्तु आरब्धे पुण्यपापे न नश्यतः प्रवृत्तफलत्वान्मुक्तेषुवत् | अपि त्वनारब्धकार्ये अप्रवृत्तफले पूर्वे अनादि- भवपरम्परया ज्ञानोत्पत्तिपर्यन्तं सञ्चिते पुण्यपापे । ते एव ज्ञानान्नश्यतः । कुतः, तदवधेः 'तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये' (छा. ६-१४-२ ) इति देहपातावधिश्रवणादित्यर्थः । एवञ्च विशेषश्रुत्यनुरोधादविशेष श्रुतिर्नेतव्येति भावः ॥ १५ ॥ १२ अग्निहोत्राद्यधिकरणम् * पूर्वमनारब्धकार्याणां कर्मणां ज्ञानात् क्षय उत्सर्गत उक्तः । तस्येह नि- त्यनैमित्तिक।तिरिक्तानारब्धकर्मविषयत्वेनापवादः क्रियत इत्युत्सर्गापवादसङ्गत्येद- माह - अग्निहोत्रादि तु तत्कार्यायैव तदर्शनात् ॥ १६ ॥ अत्र पूर्वपक्षे ज्ञानार्थं नित्याद्यनुष्ठानासिद्धिः, सिद्धान्ते तदर्थं तत्सिद्धिरिति फलभेदः । अत्र किं नित्यनैमित्तिककर्मजातं ज्ञानात् क्षीयते न वेति सन्देहे अनारब्ध- कर्मत्वाविशेषात् क्षीयत इति पूर्वः पक्षः । सिद्धान्तस्तु नित्यनैमित्तकमग्निहोत्रादि- कर्मजातं तत्कार्यायैव चित्तशुद्ध्यादिपरम्परया तस्य ज्ञानस्य यत् कार्य मुक्तिरूपं तस्मा एव । कस्मात्, तद्दर्शनाद् यज्ञादि (बृ. ४-४-२२)श्रुतौ ज्ञानहेतुत्वदर्शना- दित्यर्थः । एवञ्च ज्ञानरूपफलैकनाश्यत्वं नित्यनैमित्तिककर्मजातस्य न काम्यवन्नाश इति भावः ॥ १६ ॥ ननु नित्यादेर्ज्ञानार्थत्वे 'तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विष न्तः पापकृत्याम्' इति विनियोगवचनं किंविषयमित्यपेक्षायामाह- अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥ अतोऽग्निहोत्रादेः कर्मणोऽन्याप्यस्ति काम्यलक्षणा साधुकृत्या पापकृत्या १. 'म्परायां ज्ञा' ख. पाठः,