ब्रह्मसूत्रवृत्ती महत्तत्त्वप्रकाशिकायां अथ द्वितीयः पादः ।
- १ वाक्सम्पत्त्याधिकरणम्
." पूर्वपादे मुक्तिविरुद्धानारब्धकार्यकर्मनिवृत्त्या जीवन्मुक्तत्वम् आरब्धनिवृत्तौ तु विदेहमुक्तत्वमिति सगुणनिर्गुणविद्ययोः फलं सामान्यतो निरूपितम् । सम्प्रति प्रारब्धकर्मक्षयानन्तरभाविनि मोक्षे विशेषप्रदर्शनाय पादत्रयमारभ्यते । एवञ्च सामान्यनिरूपणस्य विशेषनिरूपणहेतुत्वात् पूर्वेणास्य पादत्रयस्य हेतुहेतुमद्भावस- ङ्गतिः । तत्रोत्क्रान्त्यपेक्षानपेक्षालक्षणविशेषं निरूपयितुमयं पाद आरभ्यते वाङ्मनसि दर्शनाच्छब्दाच ॥ १ ॥ पादान्तरत्वादस्याधिकरणस्य नाव्यवहिताधिकरणसङ्गत्यपेक्षा । अत्र पूर्वपक्षे स्वोपादाने स्वस्य लय इति न्यायासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः । अ- स्त्युत्क्रान्तिक्रमबोधिका श्रुतिः - 'अस्य सोम्य ! पुरुषस्य प्रयतो वाङ् मनसि सम्प- द्यते मनः प्राणे प्राणस्तेजारी तेजः परस्यां देवतायाम्' (छा. ६-८- ६) इति । तत्र ‘वाङ् मनसि सम्पद्यत' इत्यत्र किं सवृत्तिकाया वाच एव मनसि लयः किं वा वाग्वृत्ते- रेवेति सन्देहे श्रुतिबलाद् वाच एवेति पूर्वः पक्षः । सिद्धान्तस्तु उक्तिर्वागिति भाव- व्युत्पत्त्या वाक्छब्देन वाग्वृत्तिरुच्यते । मनोवृत्तौ सत्यामेव मनसि वाग्वृत्तिर्लीयते । कुतः, दर्शनाद् मनोवृत्तौ सत्यामेव लोके वाग्वृत्तिलयस्य दर्शनात् । तर्हि वाक्छ- ब्दस्य का गतिरत आह— शब्दाच्च तस्य वाक्छब्दस्य वृत्तिवृत्तिमतोरभेदोपचारेण भावव्युत्पत्त्या वा वृत्तिपरत्वेन नयनादित्यर्थः ॥ १ ॥ उक्तन्यायं चक्षुरादिष्वतिदिशति- अत एव च सर्वाण्यनु ॥ २ ॥ अत एवोक्तदर्शनादिहेतोः सर्वाणि चक्षुरादीन्द्रियाण्यपि सवृत्तिके मनास वृत्तिलयमात्रेणानुवर्तन्ते लीयन्ते न स्वरूपेणेत्यर्थः ॥ २ ॥
- २ मनस्सम्पत्त्यधिकरणम् *
पूर्व मनसि सर्वेन्द्रियलय उक्तः, न तथा मनसः प्राणे वृत्तिलयः, 'अन्न- मयं हि सोम्य! मन आपोमयः प्राणः' (छा. ६-५-४) इति श्रुतौ प्राणमनसोर- १. ‘पक्षेऽनपेक्षालक्षणविशेषन्या' (?) क. पाठः,