चतुर्थाध्याये द्वितीयः पादः । बन्नविकारत्वश्श्रवणादवन्नयोश्चोपादानोपादेयभावात् स्वरूपलय इति प्रत्युदाहरणस- कत्येदमाह - तन्मनः प्राण उत्तरात् ॥ ३ ॥ फलं पूर्ववत् । 'मनः प्राण' इत्युत्तरवाक्ये किं मनसः प्राणे स्वरूपलयो वृत्तिलयो वेति सन्देहे स्वरूपलय इति पूर्वः पक्षः । सिद्धान्तस्तु तत् सर्वेन्द्रिय- वृत्तिलयाघारं मनोऽपि प्राणे स्ववृत्तिलयेनैव लीयते न स्वरूपेणेति ‘मनः प्राण’ इत्युत्तराद्वाक्यादवगन्तव्यम् । सुप्तिमृत्यवस्थयोः सवृत्तिके प्राणे सत्येव मनोवृत्ति- लयदर्शनादिति हेत्वनुषङ्गः । न ह्यबन्नयोरुपादानोपादेयत्वमात्रेण तद्विकारयोरप्यु- पादानोपादेयभावो युक्तः, हिमघैटयोस्तददर्शनादिति भावः ॥ ३ ॥
- ३ प्राणसम्पत्त्यधिकरणम् *
पूर्व प्राणे मनसो वृत्तिलय उक्तः । तद्वत् तेजसि प्राणस्य वृत्तिलयोऽस्तु 'प्राणस्तेजसी' ति श्रुतेरिति दृष्टान्तसङ्गत्येदमाह- सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥ अत्र पूर्वपक्षे तेजश्शब्दस्य मुख्यत्वं, सिद्धान्ते भूतोपहितजीवलक्षकत्वमिति फलभेदः । 'प्राणस्तेजसी'त्युत्तरवाक्ये किं प्राणस्य लयस्तेजसि उत जीव इति सन्देहे तेजसीति पूर्वः पक्षः । सिद्धान्तस्तु स प्राणोऽध्यक्षे जीवे निवृत्तवृत्तिस्सन्नव- तिष्ठते । कुतः, तं जीवं प्रत्युपगमानुगमनावस्थानेभ्यः ‘एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ती'त्युपगमः, 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति' (बृ. ४-४- २) इत्यनुगमनम्, 'स विज्ञानो भवति' इत्यवस्थानम्, तेभ्य इत्यर्थः ॥ ४ ॥ तर्हि ‘प्राणस्तेजसी’ति श्रुतेः कोऽर्थस्तत्राह- भूतेषु तच्छ्रुतेः ॥ ५ ॥ ‘प्राणस्तेजसी’ति श्रुतेस्तेजरसहितेषूत्तर देहारम्भकेषु पञ्चभूतेषूपाहतत्वेन वि द्यमाने जीवे प्राणस्य वृत्तिलय इत्यर्थः । एवञ्च प्राणस्योपहितजीवप्राप्तावुपाधितेज- आदिभूतप्राप्तेः स्वतस्सिद्धत्वादिति भावः ॥ ५ ॥ ननु 'प्राणस्तेजसी'त्येकस्यैव तेजसः श्रवणात् कथं तेजस्सहितेषु भूतेष्वि- त्युक्तं, तत्राह- नैकस्मिन् दर्शयतो हि ॥ ६ ॥ १. 'घनयो' क. पाठः. २ 'त्यभ्युप' ख. पाठ:.