ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां समर्पयतीति पूर्वः पक्षः । सिद्धान्तस्तु शास्त्रमृग्वेदादि योनिः प्रमाणं यस्य तत् त- थोक्तं, तस्य भावस्तत्त्वम् । तस्माद्वेदैकप्रमाणकत्वात् तदेकगम्यत्वं समर्पयति । यत्तु मानान्तरगम्यत्वं ब्रह्मणोऽभाणि तन्न, तस्य रूपाद्यभावेन तद्गम्यत्वासम्भवा- दिति । द्वितीयवर्णकम् ।॥ ३ ॥
४ समन्वयाधिकरणम् * नन्वित्थं ब्रह्मणः शास्त्रैकगम्यत्वमभ्यधायि । तदसाधु शास्त्रस्यान्यपरत्वादि- त्याक्षिप्याह-
तत्तु समन्वयात् ॥ ४॥ " अस्य पूर्वेणाक्षेपिकी सङ्गतिः । फलन्तु पूर्वपक्षे मुमुक्षोर्वेदान्तेषु प्रवृत्त्यनु- पपत्तिः, सिद्धान्ते प्रवृत्तिसिद्धिरिति द्रष्टव्यम् । अत्र सर्वे वेदान्ता विषयः । ते किं कर्मशेषकर्त्रादिपरा उत नित्यसिद्धब्रह्मपरा वेति सन्देहे अहेयानुपादेयसिद्धन- झपरत्वे निष्प्रयोजनत्वसापेक्षत्वप्रसङ्गात् कर्मशेषकर्त्रादिपरा एवेति पूर्वः पक्षः । सिद्धान्तस्तु --- सौत्रस्तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । तद् ब्रह्म बेदान्तेषु प्रतिपाद्यते, कुतः, समन्वयात् सम्यक् तात्पर्यवत्त्वेन वेदान्तानां ब्रह्मण्यन्वयात् सम्बन्धाद् । अ- तो वेदान्ता नित्यसिद्धब्रह्मपराः, न कर्त्रादिपराः भिन्नप्रकरणस्थत्वात् । न च प्रक- रणाभेदादुपासनाविधिपरा इति साम्प्रतं, 'तत्त्वमस्या' (छा. ६. ७) दीनां विधि- विधुराणां बहुलमुपलब्धेः । यत्तु निष्प्रयोजनत्वमुक्तं तदयुक्तम् अनर्थनिवृत्तेः प्रयोजनस्य सम्भवात् । यच्च सापेक्षत्वं तन्न, रूपादिहीनस्य ब्रह्मणः प्रमाणान्तरा- गम्यत्वेन तत्प्रतिपादकवेदान्तानां सापेक्षत्वासम्भवात् । तस्मादुपक्रमादिलिङ्गैर्वे- दान्ता ब्रह्मपरा एवेति सिद्धम् । प्रथमवर्णकम् । यद्वा इत्थं ब्रह्मणो वेदान्तवेद्यत्वेऽपि तद्विधिद्वाराजीकुर्वत एकदेशिनो मतं. प्रसङ्गादाक्षिप्याह- Gem तत्तु समन्वयात् । पूर्वेणास्य प्रसङ्गसङ्गतिः । अत्र पूर्वपक्षे उपासनया मुक्तिः सिद्धान्ते ज्ञा- नादिति फलभेदः । तत्र वेदान्ताः प्रतिपत्तिविधिविषयतया ब्रह्म समर्पयन्ति उत साक्षादिति सन्देहे प्रवृत्त्यादिलिङ्गाभावेन सिद्धे शक्तिग्रहासम्भवात् प्रवृत्तिनिवृत्ति- परस्यैव शास्त्रत्वेन सिद्धपरत्वे तत्त्वायोगाद् विधिविषयतयेति पूर्वः पक्षः। सिद्धान्तस्तु- तद् ब्रह्म साक्षाद् वेदान्ताः समर्पयन्ति, कुतः समन्वयात् तात्पर्यवत्त्वेन तेषां तत्रान्व-