चतुर्थाध्याये द्वितीयः पादः । ननूक्तलक्षणं तेजो यद्यस्ति, तर्हि पार्श्वस्थैरुपलभ्येतेत्यत आह- सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥ यथोक्तं तेजः प्रमाणतश्चकारात् स्वरूपतश्च तृसरेणुवत् सूक्ष्मं, तस्य नाडी- द्वारा निष्क्रमणश्रुत्या तथा सूक्ष्मत्वस्योपलब्धेरित्यर्थः ॥ ९ ॥ नोपमर्देनातः ॥ १० ॥ १६७ अतः सूक्ष्मत्वादेव शरीरोपमर्देन स्वयं नोपमृद्यत इत्यर्थः ॥ १० ॥ सूक्ष्मतेजस्सद्भावे औष्ण्यलिङ्गकमनुमानमाह - अस्यैव चोपपत्तेरेष ऊष्मा । ११ । स्थूलदेह उपलभ्यमान एष ऊष्मा अस्यैव सूक्ष्मतेजस एव धर्मः। सत्येव तस्मिन् तदुपलब्धेः, तदभावे मृतदेहे तदनुपलब्धेरित्यन्वयव्यतिरेकाभ्यां तद्धर्म- स्यैवोपपत्तेरित्यर्थः ॥ ११ ॥
- ६ उत्क्रान्तिप्रतिषेधाधिकरणम्
आसृत्युपक्रमाधिकरणे मुख्यामृतत्वे उत्क्रान्त्यभावोऽवगतः । स न युक्त इत्याक्षेपसङ्गत्येदमाह- प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥ नाव्यवहितेनास्य सङ्गतिः । अत्र पूर्वपक्षे निर्गुणब्रह्म विदोऽपि ब्रह्मलोक- प्राप्तिः, सिद्धान्ते त्विहैव मुक्तिरिति फलभेदः । निर्गुणब्रह्मविदत्र विषयः । किं तस्योत्क्रान्तिररास्ति न वेति सन्देहे अस्त्युत्क्रान्तिः । ननु नास्त्युत्क्रान्तिः 'न तस्य प्राणा उत्क्रामन्ति' (बृ. ४-४-६) इति निर्गुणब्रह्मविदः शरीरात् प्राणोत्क्रान्ति - प्रतिषेधादिति चेत् ।न। शारीरात्, जीवादयमुत्क्रान्तिप्रतिषेधो न शरीरात् । 'न तस्मात् प्राणा उत्क्रामन्ति' इति माध्यन्दिनशाखायां जीवादेव प्राणोत्क्रान्तिप्रति- षेधस्य कृतत्वात् । अतः प्राणादिसहितस्य जीवस्य परब्रह्मविदोऽप्यस्तीति पूर्वः पक्षः ॥ १२ ॥ -- सिद्धान्तस्तु - स्पष्टो ह्येकेषाम् । १३ । एकेषां काण्वानां शाखायां प्राणानां परब्रह्मविदो देहादुत्क्रान्तिप्रतिषेधः स्पंष्टो हि यत उपलभ्यते, अतो न तस्योत्क्रान्तिः, अपि त्वत्रैव लयः । अन्यथा- नुत्क्रान्तानां प्राणानां देहेऽवस्थाने ' स उच्छ्रयत्याध्मायत्याध्मातो मृतः शेते' (बृ.