ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां ३-२-११) इत्युत्क्रान्त्यवधेर्देहस्योच्छूनत्वादि लिङ्गं बाध्येत । तत्सामान्याद् मा- ध्यन्दिनशाखायामपि ‘तस्माद्' इत्यनेन देहस्यैव ग्रहणं बोध्यम् । तस्माद् विदेहादेव प्राणोत्क्रान्तिप्रतिषेध इति ॥ १३ ॥ स्मर्यते च । १४ । - महाभारते – 'देवापि मार्गे मुह्यन्ति ह्यपदस्य पदैषिणः' इति विदुष उत्क्रान्त्यभावः स्मर्यंत इत्यर्थः ॥ १४ ॥
- ७ वागादिलयाधिकरणम् *
ननु ब्रह्मणि लय इत्ययुक्तं 'गताः कलाः पञ्चदश प्रतिष्ठाः' (मु. ३-२-७) इति विद्वद्विषयश्रुत्यैव पृथिव्यादिषु ल्यश्रवणादित्याक्षेपसङ्गत्येदमाह - तानि परे तथा ह्याह । १५ । पूर्वाधिकरणाक्षेपरूपत्वादस्य तत्फलं द्रष्टव्यम् । अत्र किं ब्रह्मविदः प्राणानां लयः पृथिव्यादिषु उत परब्रह्मणीति विशये पृथिव्यादिष्विति पूर्वः पक्षः । सिद्धा- न्तस्तु तानि यथोक्तानि प्राणाख्यानीन्द्रियाणि परे ब्रह्मणि लीयन्ते । तथा ह्याह श्रुतिः—‘एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छ- न्ति’ (प्र. ६-५) इति । न च पूर्वश्रुतिविरोधः । स्वोपादानेषु पृथिव्यादिषु प्रलीनाः कलाः प्राणाः स्वोपादानैः सह परब्रह्मण्यस्तं गच्छन्तीति श्रुतिद्वयतात्पर्यम् ॥ १५ ॥
- ८ अविभागाधिकरणम् *
पूर्वोक्तविद्वत्कला विषयीकृत्यान्यत् किञ्चिद्विचार्यत इत्येक विषयत्वसङ्गत्ये- दमाह - अविभागो वचनात् ॥ १६ ॥ अत्र पूर्वपक्षे मोक्षासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलभेदः । विद्वत्कलालयः किमविदुष इवानात्यन्तिक उतात्यन्तिक इति सन्देहे अनात्यन्तिक इति पूर्वः पक्षः । सिद्धान्तस्तु विद्वत्कलानां ब्रह्मणा सहात्यन्तमविभाग एवं, न सावशेषो लयः । कुतः, कलानां लयोक्त्यनन्तरं 'इभिद्येते चासां नामरूपे' इति कलानां शक्त्यात्म- कनामरूपयोः पुरुषे लयमुक्ता ‘स एषोऽकलोऽमृतो भवति' (प्र.६.५) इति वचना- दित्यर्थः । अविदुषस्तु जन्मान्तर सिद्ध्यर्थमनात्यन्तिकलयो युक्तो न विदुषः, तस्य तदभावादिति भावः । स्थितेऽयं परविद्याचिन्ता ॥ १६ ॥ १. 'क्षे अपूर्वासि' क. पाठः $ 'भिद्येते तासाम्' इत्यपि उपनिषत्कोशेषु पाठो दृश्यते.