१७० ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां अत्र पूर्वपक्षे रात्रौ मृतस्य राईमप्राप्त्यर्थं सूर्योदयप्रतीक्षास्ति, सिद्धान्ते ना- स्तीति फलभेदः । अत्र ' अथैतैरेव रश्मिभिरुर्ध्वमाक्रमते' (छा. ८-६-५) इति मूर्धन्यनाड्या निर्गतस्य रश्मिसम्बन्धः श्रूयते । तत्र किं रम्यनुसारित्वमहनि मृत- स्यैव उत रात्रावपीति सन्देहे अहन्येवेति पूर्वः पक्षः । सिद्धान्तस्तु अहनि रात्रौ वा मृतो रश्म्यनुसारी भवतीति ॥ १८ ॥ पूर्वपक्षबीजमुपन्यस्य दूषयति - निशि नेति चेन्न सम्बन्धस्य यावदेहभावित्वाद् दर्शयति च ॥ १९ ॥ अहनि सूर्यरश्मिनाडीसम्बन्धस्य सत्त्वात् तत्रैव मृतो रश्म्यनुसारी भवति, निशि तु न, तदसत्त्वादिति चेद्, न, नाडीरश्मिसम्बन्धस्य यावद्देहभावित्वात् । तच्च दर्शयति श्रुतिः 'अमुष्मादादित्यात् प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो ना- डीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ता (छा. ८-६ - २) इति । तस्मान्निश्यपि मृतो रश्म्यनुसारीति सिद्धम् ॥ १९ ॥
- ११ दक्षिणायनाधिकरणम्
उक्तन्यायमन्यत्रातिदिशति- अतश्चायनेऽपि दक्षिणे ॥ २० ॥ अस्यातिदेशत्वान्न पृथक् सङ्गत्यपेक्षा । अत्र पूर्वपक्षे दक्षिणायने मृतस्य फलाभावादुत्तरायणैमरणार्थं यत्नापेक्षा, सिद्धान्ते हेत्वसिद्धेस्तदनपेक्षेति फलभेदः । किं दक्षिणायने मृतो विद्वान् विद्याफलं प्राप्नोति न वेति सन्देहे उत्तरायणप्राश- स्त्यप्रसिद्धेर्भीष्मस्य तत्प्रतीक्षास्मरणाञ्च न प्राप्नोतीति पूर्वः पक्षः । सिद्धान्तस्तु अत एव कालान्तरप्रतीक्षानुपपत्तेः विद्याया नित्यवत्फलसम्बन्धश्रवणाच्च दक्षिणेऽप्य- यने मृतो विद्वान् फलं प्राप्नोत्येवेत्यर्थः । प्राशस्त्यप्रसिद्धिरविद्वद्विषया । भीष्मस्य च प्रतीक्षापरिपालनमाचारपरिपालनार्थं पितृप्रसादलब्धस्वेच्छामरणज्ञापनार्थं चेति भावः ॥ २० ॥ ननु 'यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ !' ॥ (गी. ८-२३) 'अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम्' (गी. ८-२४) १. 'णार्थे प्रय' ख. पाठः. २. 'येवमर्थः' क. पाठ: ३. ‘र्थ वेति' ख. पाठः,