• प्रथमाध्याये प्रथमः पादः । यात् । यत्तु सिद्धे प्रवृत्त्यादिलिङ्गाभावेन न शक्तिग्रह इति, तन्न । प्रवृत्तिनिवृत्ती एव लिङ्गमिति न निर्बन्धः, 'पुत्रस्ते जात' इत्यादिषु हर्षादिलिङ्गेनापि शक्तिग्रहस- म्भवात् । यत्तु प्रवृत्त्यादिपरस्यैव शास्त्रत्वमिति, तदपि न हितशासनाद्वेदान्तानां शास्त्रत्वोपपत्तेरिति दिक् । द्वितीयवर्णकम् ॥ ४ ॥
१५ ईत्यधिकरणम् इत्थं चतुर्भिः सूत्रैः सर्वजगत्कारणं सर्वज्ञं सर्ववेदान्तप्रतिपाद्यं ब्रह्मैवेति प्रत्यपादि । तत्र साङ्ख्याः कूटस्थत्वेन क्रियाशक्त्ययोगाद् ब्रह्म न जगत्कारणम्, अपि तर्हि त्रिगुणात्मकत्वात् क्रियाशक्तिमत् प्रधानमेव जगत्कारणमिति जगुः । तन्मतं निराकर्तुमिदमाह- ईक्षतेर्नाशब्दम् ॥ ५ ॥ पूर्वेणास्याक्षेपसङ्गतिः । फलन्तु पूर्वपक्षे प्रधानैक्यसम्पदुपास्तिः सिद्धान्ते ब्रह्म- क्यधीरिति बोध्यम् । छान्दोग्ये श्रूयते 'सदेव' ( ६.२.१) इत्युपक्रम्य ‘तदैक्षते’ति। तत्र सच्छब्दितं जगदुपादानं किं प्रधानम् उत ब्रह्मेति संशये प्रधानमिति पूर्वः पक्षः । सिद्धान्तस्तु न प्रधानं जगदुपादानम् । कस्माद् अशब्दम् । हेतुगर्भविशेषणमे- तत् । अशब्दत्वाढवेदप्रमाणकत्वात् । कस्मादवेदप्रमाणकत्वम्, ईक्षतेः धातुवाचके- क्षतिशब्दस्तदर्थलक्षकः ईक्षितृत्वश्रवणात् । नवचेतनस्य प्रधानस्येक्षितृत्वं सम्भ- वति, तस्य चेतनधर्मत्वात् । नच कूटस्थब्रह्मणो ज्ञानक्रियाशक्त्यभावः, माया- महिन्ना सर्वस्याप्युपपत्तेः । अतः सदीक्षितृ चेतनं ब्रह्मैव जगदुपादानमित्यर्थः ॥५॥ ननु 'तत् तेज ऐक्षत', 'ता आप 'ऐक्षन्त' (छा. ६. २. ३. ४) इत्यचेतने- ऽपीक्षितृत्वश्रवणात् तत् प्रधानेऽपि गौणमस्त्वित्याशङ्कयाह - गौण चेन्नात्मशब्दात् ॥ ६ ॥ अप्तेजसोरिव प्रधान ईक्षतिशब्दो गौण इति चेन्न । कस्माद्, आत्मश- ब्दात् । तदेव ‘तदैक्षत’ इति प्रकृतं सदीक्षितृ 'सेयं देवते'ति देवताशब्देन पराभृश्य 'अनेन जीवेनात्मना' (छा. ६. ३.३) इत्यात्मशब्दश्रवणादित्यर्थः ॥ ६ ॥ नन्वात्मशब्दः प्रधानेऽप्यस्तु तस्य नानार्थकत्वादित्याशङ्कयाह- तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥ न प्रधानमात्मशब्दवाच्यं 'स आत्मे' ति प्रकृतं सदणिमानमादाय 'तत्त्वम-