ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां मुक्तः प्रतिज्ञानात् ॥ २ ॥ पूर्वमवस्थात्रय कलुषितः संसारी वावतिष्ठमानोऽपि सर्वसंसारानर्थवातान्मुक्तः परितः प्रद्योतमानः पूर्णानन्दात्मनावतिष्ठत इति महानयं विशेषः । कुतः पुनरैय- मवगम्यते, प्रतिज्ञानाद् ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि' (छा. ८-९-३, ८- १०-४, ८-११-३) इति सकलानर्थविनिर्मुक्तस्यैवानन्दात्मनो व्याख्येयत्वेन प्रति- ज्ञानादित्यर्थः ॥ २ ॥ -- ननु कार्यज्योतिरुपसम्पन्नस्य कथं मुक्तत्वमत आह- आत्मा प्रकरणात् ॥ ३ ॥ अत्रात्मैव ज्योतिर्न भौतिकं तेजः 'य आत्मा अपहतपाप्मा' (छा. ८-७-१) इत्यात्मप्रकरणादित्यर्थः ॥ ३ ॥
- २ अविभागाधिकरणम् *
यथोक्तं मुक्तमुपजीव्य किञ्चिद्विचार्यत इत्युपजीव्योपजीवकभावसङ्गत्येद- १७८ माह - - अविभागेन दृष्टत्वात् ॥ ४ ॥ अत्र पूर्वपक्षे जीवब्रह्मणोरत्यन्तभेदः, सिद्धान्ते तयोरत्यन्तामेद इति फल- भेदः । किं मुक्तो ब्रह्मभिन्नत्वेनावतिष्ठते उत ब्रह्माभिन्नत्वेनेति सन्देहे 'ज्योतिरुप- सम्पद्ये'ति कर्मकर्तृत्वेन भेदोक्तेर्ब्रह्मभिन्नत्वेनेति पूर्वः पक्षः । सिद्धान्तस्तु अवि- भागेन निरतिशयानन्दब्रह्मात्मनैवावतिष्ठते । कुतः, दृष्टत्वाद् 'ब्रह्मैव सन् ब्रह्मा- प्येति’ (बृ. ४-४-६), ‘तत्त्वमसि' (छा-६-८-७) इत्यादिश्रुतिप्वभेदस्यैव दृष्टत्वा- दित्यर्थः । भेदोक्तिरौपचारिकीति भावः ॥ ४ ॥
- ३ ब्राह्माधिकरणम् *
यथोदीरितं ब्रह्माभिन्नं मुक्तमुपजीव्य किञ्चिद्विचार्यत इत्युपजीव्योपजीव- कभावसङ्गत्येदमाह— ब्राह्मण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥ अत्र तत्तत्पक्षसिद्धिरेव फलं द्रष्टव्यम् । स किं ब्रह्मात्मको मुक्तः सत्येन सर्वज्ञत्वादिना युक्तोऽवतिष्ठते, उत सर्वज्ञत्वादेः शशविषाणवदत्यन्तासत्त्वाच्चिन्मा- २. 'र्तृत्वभे' ख. पाठः, १. 'रवग' क. पाठः