चतुर्थाध्याये चतुर्थः पादः । १८३ श्वर्यमिति गम्यते । यदि पूर्ववाक्य एव निरतिशयमैश्वर्यमुक्तं स्यात्, तर्हि इदमी- श्वरप्राप्तेर्वचनमनर्थकं स्यात् । अतः सातिशयं विदुष ऐश्वर्यमिति सिद्धम् ॥ १८ ॥ विकारावर्ति च तथा हि स्थितिमाह ॥ १९ ॥ सगुणे ब्रह्मणि विकारावर्ति निर्गुणं स्वरूपमस्ति । तथा हि ब्रह्मणि सगु- णत्वनिर्गुणत्वयोः स्थितिमाह श्रुतिः 'तावानस्य महिमा अतो ज्यायांश्च पूरुषः' (छा. ३-१२-६) इत्यादिका । अयं भावः - यथा सगुणस्थितं निर्गुणस्वरूपमुपा- सको न प्राप्नोति तज्ज्ञानाभावात्, तथा तद्द्भुतं जगदुत्पत्त्यादिकमैश्वर्यं न प्राप्नोति तदुपास्त्यभावाद, उपास्त्यभावश्च श्रुत्यभावादिति ॥ १९ ॥ अत्र दृष्टान्तत्वेन निर्गुणस्वरूपमुक्तम् । तत्र प्रमाणान्तरमाह- दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥ एवं ब्रह्मणो निर्गुणत्वं श्रुतिस्मृती दर्शयतः । 'न तत्र सूर्यो भाति' (क. २- ५-१५) इत्याद्या श्रुतिः, 'न तद् भासयते सूर्यः' (गी. १५-६) इत्याद्या स्मृतिरिति ॥ २० ॥ इतथोपासकस्यानिरङ्कुशमैश्वर्यमित्याह- भोगमात्रसाम्यलिङ्गाच्च ॥ २१ ॥ उपासकस्योपास्यदेवतया सम्भोगमात्रेण साम्यं श्रुतं, न जगद्व्यापारेण ‘आपो वै खलु मीयन्ते लोकोऽसौ' इत्यादौ । तस्मात् साम्यलिङ्गाद्विदुषः सातिश- यमैश्वर्यं गम्यत इत्यर्थः ॥ २१ ॥ ननु यद्यैश्वर्यं सातिशयं स्यात्, तर्हि लौकिकैश्वर्यवदनित्यं स्यात् । एवञ्च विदुषामावृत्तिः प्रसज्येतेत्याशङ्कय परमकृपालुर्भगवान् बादरायणः समादधाति- अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥ येऽर्चिरादिमार्गेण ब्रह्मलोकं प्राप्ताः, तेषामनावृत्तिरेव 'न च पुनरावर्तते' (छा. ८-१५-१) इत्यादिक्रममुक्त्यभिधायकशब्दादित्यर्थः । निर्गुणब्रह्मविदां त्वा- वृत्तिशङ्कैव नास्ति, यतः सगुणविदामप्यनावृत्तिः । सूत्रावृत्तिः शास्त्रसमाप्तिद्योत- नार्था ॥ २२ ॥
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१९७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति