प्रथमाध्याये प्रथमः पादः । आनन्दमयोऽभ्यासात् ॥ १२ ॥ ईक्षत्यधिकरणे 'तत् तेज ऐक्षते'ति अमुख्येक्षणप्रायपाठो यथा जगत्कारण- त्वे न निश्चायकः न तथा 'आनन्दमय' इत्यत्र मयटो विकारार्थत्वे तत्प्रायपाठो न निश्चायक इति पूर्वेणास्य प्रत्युदाहरणसङ्गतिः । पूर्वपक्षे जीवस्यानन्दमयत्वेनोपास्तिः फलं, सिद्धान्ते तु निर्विशेषब्रह्मैक्यप्रमितिरिति परमसिद्धान्तानुसारिणः । एकदेशिम- ते तूभयत्रोपास्तिरिति विवेकः । तैत्तिरीये (२. १) श्रूयते - 'अन्नरसमय' इत्याद्युपक- म्य 'अन्योऽन्तर आत्मानन्दमय' इति । तत्र किमानन्दमयशब्देन 'सत्यं ज्ञानमि' ति प्रकृतं परं ब्रह्मोच्यते, किं वा अन्नमयादिवद् ब्रह्मणोऽर्थान्तरं जीव इति विशये अ- थीन्तरमिति पूर्वः पक्षः । सिद्धान्तस्तु आनन्दमयः परमात्मैव, कुतः, अभ्यासाद्, आनन्दशब्दस्य ब्रह्मण्येव बहुकृत्वोऽभ्यासादित्यर्थः ॥ १२ ॥ नन्वानन्दमयशब्दस्य विकारार्थत्वात् कथं ब्रह्मपरत्वमित्याशङ्कयाह- विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥ न ब्रह्म आनन्दमयशब्दितं, कुतः, विकारशब्दाद, विकारार्थकमयट्प्रत्य- याद् ब्रह्मणश्चानन्दविकारत्वानुपपत्तेरिति चेन्न । कस्मात्, प्राचुर्यात्, प्रकृते मयट आनन्द प्राचुर्यवाचकत्वादित्यर्थः ॥ १३ ॥ मयटः प्राचुर्यार्थकत्वे हेत्वन्तरमाह -- तद्धेतुव्यपदेशाच ॥ १४ ॥ तमानन्दं प्रति ‘एष ह्येवानन्दयाति' (तै. २. ७) इति ब्रह्मणो हेतुत्वव्यपदे- शादानन्दमयः पर एवेत्यर्थः ॥ १४ ॥ इतश्च आनन्दमयः पर एवेत्याह-- मान्त्रवाणकमेव च गीयते ॥ १५ ॥ ‘ब्रह्मविदामोति परम्’ इत्युपक्रम्य 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै. २-१) इत्य- स्मिन् मन्त्रे यत् सत्याद्यात्मकं सर्वान्तरं ज्ञेयत्वेनोक्तं तन्मान्त्रवर्णिकं ब्रह्मैव 'आनन्द- मयः' (तै. २-५) इति ब्राह्मणे गीयते, मन्त्रब्राह्मणयोरैकार्थ्यादित्यर्थः ॥ १५ ॥ इतश्चानन्दमयः परो न जीव इत्याह- नेतरोऽनुपपत्तेः ॥ १६॥ ईश्वरादितरो नानन्दमयः, कुतः, अनुपपत्तेः 'सोऽकामयत बहु स्यां प्रजाये- य' (तै. २-३) इत्यादिश्रूयमाणस्य सृष्टेः प्राक् कामयितृत्वसष्टव्यात्मकत्वादरनुपप- चेरित्यर्थः ॥ १६ ॥
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/२१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति