पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्याये प्रथमः पादः । आनन्दमय: स्वप्रधानत्वेन प्रतिपाद्यः किं न स्याद् इत्यत आह -नेतरोऽनुपपत्तेः । इतर आनन्दमयोऽत्र न प्रतिपाद्यः । प्रियादिमत्त्वेनाग्रिमवाक्योक्तस्रष्टृत्वाद्यनुपपत्ते- रित्यर्थः । हेत्वन्तरमाह-भेदव्यपदेशाच्च । 'रसं ह्येवायं लब्ध्वानन्दी भवति' (तैं.२- ७) इत्यानन्दमयब्रह्मणोर्लब्धलब्धव्यत्वेन रूपेण भेदव्यपदेशादित्यर्थः । ननु 'आन- न्दो ब्रह्म' इत्यत्रत्यानन्दस्य ब्रह्मत्वादानन्दमयस्यापि ब्रह्मत्वमनुमीयत इत्यत आह - कामाच्च नानुमानापेक्षा । काम्यत इति काम आनन्दः । तस्य ब्रह्मत्वदर्शनात् नानुमानेनानन्दमयस्यापि ब्रह्मत्वभपेक्षितव्यं विकारार्थमयसमवधानादित्यर्थः । इतोऽपि नानन्दमयोऽत्र प्रतिपाद्य इत्याह - अस्मिन्नस्य च तद्योगं शास्ति । अस्मिन् पुच्छवाक्योक्ते ब्रह्मणि प्रबुद्धस्यास्यानन्दमयस्य 'यदा ह्येव' (ते. २-७) इति शास्त्रं तद्योगं तद्भावापत्तिं शास्ति । अतोऽत्रानन्दमयस्याप्रतिपाद्यत्वात् पुच्छब्रह्मैव स्वप्रधानं निर्विशेषं ज्ञेयमिति सिद्धम् ॥ १९ ॥ ,

  • ७ अन्तरधिकरणम् *

इत्थं पूर्वसिद्धनिर्विशेषब्रह्मसमन्वयापवादमाह -- अन्तस्तद्धर्मोपदेशात् ॥ २० ॥ पूर्व ब्रह्मपदानन्दमयपदतदभ्यासादितो निर्विशेषब्रह्मनिर्णयो यथा, तथा रूप- वत्त्वादिबहुप्रमाणवशात् संसारी हिरण्मयः पुरुषोऽस्त्विति पूर्वसिद्धान्तयुक्त्या पूर्व- पक्षोत्थानात् तेनास्य दृष्टान्तसङ्गतिः । फलन्तु पूर्वोत्तरपक्षयोरपरपरब्रह्मोपास्तिरेवेति द्रष्टव्यम् । छान्दोग्ये (१-६-६) श्रूयते - 'अथ य एषोऽन्तरादित्ये हिरण्मय' इत्यादि । तत्र किमयं पुरुषो विद्याकर्मातिशयवशात् प्राप्तोत्कर्षः कश्चित् संसारी उत नित्य- सिद्धः परमेश्वर इति सन्देहे संसारीति पूर्वः पक्षः । सिद्धान्तस्तु ' य एषोऽन्तरा- दित्ये’ ‘य एषोऽन्तराक्षणि' (छा. १-७-५) इति च श्रयमाणः परमेश्वर एव, न संसा- री। कुतः, तद्धर्मोपदेशात् तस्य परमेश्वरस्य ये सर्वपाप्मराहित्यादिधर्मास्तेषामस्मिन् वाक्य उपदेशात् । हिरण्यश्मश्रुकेशादिकं तु मायिकं परमेश्वरस्य लोकानुग्रहार्थमु- पपद्यत इत्यविरोधः । तस्मादक्ष्यादित्ययोरन्तः परमेश्वर एवेत्यर्थः ॥ २० ॥ किञ्च -- भेदव्यपदेशाच्चान्यः ॥ २१ ॥ आदित्याक्ष्णोरन्तः श्रूयमाणः पुरुष आदित्यशरीराभिमानिनो जीवादन्यः, कुतः, भेदव्यपदेशाद् आदित्यशरीराभिमानिनो जीवादन्यस्य परमात्मनोऽन्तर्या- मितया ‘य आदित्ये तिष्ठन्' (बृ. ३-७-९) इत्याद्यन्तर्यामिब्राह्मणे तयोर्भेदव्य- पदेशादत्राप्यन्तश्शब्दश्रुत्या तत्प्रत्यभिज्ञानात् परमेश्वर एवाक्ष्यादित्ययोरुपास्य इति सिद्धम् ॥ २१ ॥