प्रथमाध्याये प्रथमः पादः । अत्र पूर्वपक्षे कौक्षेये ज्योतिप्यादित्यदृष्ट्योपास्तिः सिद्धान्ते ब्रह्मदृष्ट्येति फ- लम् । छान्दोग्ये(३-१३-७) श्रूयते - ‘अथ यदतः परो दिवो ज्योतिप्यते' इत्यादि । तत्र किं ज्योतिश्शब्देनादित्यादिकं तेजोऽभिधीयते उत ब्रह्मेति संशये आदित्यादिक- मिति पूर्वः पक्षः । सिद्धान्तस्तु दिवो ज्योतिरिति ज्योतिश्शब्देन ब्रह्मैव गृह्यते। कुतः, चरणाभिधानाद् ज्योतिर्वाक्यात् पूर्ववाक्ये 'पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’(छा. ३-१२-६.) इति चतुष्पात्त्वाभिधानात् । अतो ब्रह्मैव ज्योतिश्शब्दित- मित्यर्थः ॥ २४ ॥ ननु 'गायत्री वा इदं सर्वम्' (३-१२-१) इति गायत्र्याख्यच्छन्दसः प्रकृतत्वात् तस्यैवोपास्यत्वं नान्यस्येत्याशङ्कयाह- छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पण- निगदात् तथा हि दर्शनम् ॥ २५ ॥ छन्दोऽभिधानाद् गायत्र्याख्यच्छन्दस एवाभिधानात् पूर्ववाक्ये न ब्रह्मणः प्रकृतत्वमिति चेन्न कुतः, तथा, छन्दोद्वारेण तद्गते ब्रह्माणि चेतोऽर्पणस्य चित्तस- माधानस्य निगदादभिधानात् । तत्र दृष्टान्तः तथा हि दर्शनम् । अन्यत्रापि विकारद्वा- रेण ‘एतं ह्येव बह्वृ’चा महत्युक्थे मीमांसन्ते' (ऐ.आ. ३-२-३-१२) एतमात्मानं प्रधाने शस्त्रे तदनुगतमुपासते इति ब्रह्मण उपासनं दृश्यत इति दर्शनं दृष्टमित्यतो ब्रह्मैव पूर्ववाक्ये निर्दिष्टं न च्छन्द इति सिद्धम् ॥ २५ ॥ इतश्च गायत्रीवाक्ये ब्रह्मैव प्रतिपाद्यमित्याह --- भूतादिपाव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥ भूतपृथिवीशरीरहृदयैश्चतुष्पदा गायत्रीति व्यपदेशस्य ब्रह्मण्येवोपपत्तेः । न ह्यक्षरसन्निवेशरूपगायत्र्या भूतादिपादव्यपदेशः सम्भवति । अतो गायत्रवाक्ये ब्रह्मैव प्रतिपाद्यमिति ज्योतिर्वाक्ये घुसम्बन्धात् तदेव प्रत्यभिज्ञायत इति सि- द्धम् ॥ २६ ॥ नु पूर्व दिवीीत सप्तम्या द्यौराधारत्वेन निर्दिश्यते । दिव इति पञ्चम्या द्यौरवधित्वेन । तथा च विभक्तिभेदेन द्युसम्बन्धात् प्रत्यभिज्ञानमुक्तं नेत्याश- ट्र्याह- उपदेशभेदान्नेति चेन्न उभयस्मिन्नप्यविरोधात् ॥ २७ ॥
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/२५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति