पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां भारूप' इत्यादि । तत्र किं मनोमयत्वादिगुणकः शारीर उपास्यत्वेनोपदिश्यते, किं वा परमात्मेति संशये शारीर इति पूर्वः पक्षः । सिद्धान्तस्तु परब्रह्मैवोपास्यत्वेनोप- दिश्यते । कुतः, सर्वत्र प्रसिद्धोपदेशात् सर्वेषु वेदान्तेषु यत् प्रसिद्धं जगत्कारण ब्रह्म तस्यैवात्र 'सर्वे खाल्व' त्यादिनोपदेशादित्यर्थः ॥ १ ॥ इतश्च ब्रह्मैवात्रोपदिश्यत इत्याह- विवक्षितगुणोपपत्तेश्च ॥ २ ॥ विवक्षिताः ‘भारूपः सत्यसङ्कल्पः' इत्यादिनोपासनायामुपादेयत्वेनोपदिष्टा ये गुणाः सत्यसङ्कल्पत्वादयस्तेषां ब्रह्मण्येवोपपत्तेरित्यर्थः, जीवसाधारण्येऽपि मनोम- यत्वादेः सत्यसङ्कल्पत्वाद्यनुरोधेन सर्वात्मके ब्रह्मण्युपपत्तेः । अतस्तद्गुणकं ब्रह्मैवो- पास्यमिति सिद्धम् ॥ २॥ ननु विपरीतं किं न स्यादिति चेन्नेत्याह- अनुपपत्तेस्तु न शारीरः ॥ ३ ॥ सत्यसङ्कल्पत्वादीनां जीवे सामञ्जस्येनानुपपत्तेर्न शारीरो जीवस्तद्धर्मेणो- पास्यः, किन्तु ब्रह्मैवेत्यर्थः ॥ ३ ॥ इतश्च न शारीर उपास्य इत्याह- कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥ ‘एतमितः प्रेत्याभिसम्भावतास्मि' (छा. ३-१४-४) इत्यनेन एतमिति प्रकृ- तस्य मनोमयत्वादिगुणकस्य ब्रह्मणः कर्मत्वेन प्राप्यत्वेनाभिसम्भवितास्मि प्राप्ता-- स्मीति शारीरस्य कर्तृत्वेन व्यपदिश्यमानत्वादित्यर्थः ॥ ४ ॥ इतश्च न शारीर उपास्य इत्याह - शब्दविशेषात् ॥ ५ ॥ समानप्रकरणे ‘अन्तरात्मन् पुरुषो हिरण्मय' (शत. ब्रा. १०-६-३-२ ) इति शारीरस्य यः शब्दोऽभिधायकः सप्तम्यन्तोऽन्तरात्मन्निति, तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनोऽभिधायकः । तस्य सत्त्वाद न परस्मादन्यः शारीर उपास्य इत्यर्थः ॥ ९ ॥