प्रथमाध्याये द्वितीयः पादः ।
- ४ अन्तराधिकरणम्
पूर्वं प्राथमिकपिबन्तावितिद्वित्वश्रुत्या चेतनत्वेन तुल्यजीवपरदृष्ट्यनुसारा- चरमश्रुता गुहाप्रवेशादयो नीताः । तर्हि तद्वदेव दृश्यत इति प्राथमिकप्रत्यक्षत्वोक् त्याक्षिप्रतिबिम्बात्मावगत्यनुरोधाच्चरमश्रुता अमृतत्वादयः स्तुत्यर्थत्वेन कथञ्चिन्नेया इति दृष्टान्तसङ्गत्येदमाह -- अन्तर उपपत्तेः ॥ १३ ॥ अत्र पूर्वपक्षे प्रतिबिम्बोपास्तिः सिद्धान्ते ब्रह्मोपास्तिरित फलभेदः । उप- कोसलविद्यायां छान्दोग्ये (४ - १५ - १) श्रूयते - ‘य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच' इत्यादि । तत्राक्ष्ण्यन्तरुपदिश्यमानः प्रतिबिम्बादिरुत परमात्मेति संशये प्रतिबिम्बादिरिति पूर्वः पक्षः । सिद्धान्तस्तु अन्तरः अक्षिमध्यगतः पर- मात्मैवोपदिश्यते । कुतः, उपपत्तेः आत्मत्वामृतत्वाभयत्वादीनामिहोक्तानां परमात्म- न्येवोपपत्तेः । ‘एतं संयद्वाम इत्याचक्षते' (छा. ४-१५-२) इत्यादिनिर्दिष्टसंयद्वा- मत्वादीनां च परमात्मन्येव न प्रतिबिम्बेऽन्यत्र वोपपत्तिः । अतोऽयन्तरः पुरुषः पमात्मैवेत्यर्थः ॥ १३ ॥ ननु सर्वगतस्याल्पमक्षि स्थानं न सम्भवतीति पूर्वपक्षबीजं दूषयन्निदमाह-- स्थानादिव्यपदेशाच्च ॥ १४ ॥ 'यश्चक्षुषि तिष्ठन्' (बृ. ३-७-१८) इत्यादिचक्षुरादीनि स्थानान्यादयो येषां ‘तस्योदिति नाम’ 'हिरण्यश्मश्रुः' (छा. १-६-७,६) इत्यादिनामरूपाणां तेषामुपासनार्थत्वेन व्यपदेशादिहापि परमात्मनोऽक्षिस्थानादिव्यपदेशो नानुपपन्न इत्यर्थः ॥ १४ ॥ प्रकरणादप्यक्षिस्थः परमात्मैवोपदिश्यत इत्याह- सुखविशिष्टाभिधानादेव च ॥ १५ ॥ ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' (छा. ४-१०-५) इ (वस्मृ?) तिवाक्योपक्रमे श्रूयमाणं यत् सुखविशिष्टं ब्रह्म तस्यैवेहाभिधानादित्यर्थः ॥ १५ ॥ प्रकरणादक्षिस्थस्य ब्रह्मत्वमभिधाय लिङ्गादपि तदाह - श्रुतोपनिषत्कगत्यभिधानाञ्च ॥ १६ ॥