प्रथमाध्याये द्वितीयः पाद: । ननु तर्हि चेतनो जीवो योगी भवत्वन्तर्यामीत्यत आह --- शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥ १९ शारीरो नान्तर्यामीति पूर्वसूत्रान्नञोऽनुषङ्गः । कस्माद् । उभयेऽपि ‘यो विज्ञाने तिष्ठन्' (बृ. ३-७-२२) इति काण्वाः । 'य आत्मनि तिष्ठन्निति माध्यन्दिनाः, तेऽप्यन्तर्यामिणो भेदेनैनं शारीरं पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन चाधीयते । अतोऽधिदैवादिष्वन्तर्यामी परमात्मैवेति सिद्धम् ॥ २० ॥
- ६ अदृश्यत्वाधिकरणम्
पूर्व प्रधानविरोधिद्रष्टृत्वादिधर्मवशान्न प्रधानमन्तर्यामीत्युक्तम् । तर्हि त- द्विरोधिधर्माणामत्राश्रवणात् प्रधानमेवादृश्यत्वादिगुणको भूतयोनिः स्यादिति प्रत्यु- दाहरणसङ्गत्येदमाह - अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥ पूर्वपक्षे प्रधानस्य शारीरस्य वा ध्यानं सिद्धान्ते निर्विशेषब्रह्मज्ञानमिति फल- भेदः । मुण्डके (१-१-५,६) श्रूयते - 'यत्तदद्वेश्यमग्राह्यम्' ‘तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः' इति । तत्र किमदृश्यत्वादिगुणको भूतयोनिः प्रधानम्, उत शाररिः, किं वा परमात्मेति सन्देहे प्रधानशारीराविति पूर्वः पक्षः । सिद्धा- न्तस्तु ‘यत्तदद्रेश्य’मित्यादौ श्रुता अदृश्यत्वादयो गुणा यस्य सोऽदृश्त्वादिगुणको भूतयोनिः परमात्मैव । कस्माद्, धर्मोक्तेः 'यः सर्वज्ञः सर्वविद्' (मु. १. १. ९) इत्यादिश्रूयमाणसर्वज्ञत्वादेः परमेश्वरधर्मस्य भूतयोनौ निर्देशात् । न ह्यचेतने प्रधाने किञ्चिज्ज्ञे शारीरे वा सर्वज्ञत्वादिधर्मः सम्भवति, येन भूतयोनिः स्यात् । अतो भूतयोनिः परमात्मैवेत्यर्थः ॥ २१ ॥ भूतयोनेः परमात्मत्वे हेत्वन्तरमाह- विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥ विशेषणं च भेदव्यपदेशश्च विशेषणभेदव्यपदेशौ ताभ्यामितरौ प्रधान- जीवौ न भूतयोनी भवतः । तत्र 'दिव्यो ह्यमूर्त्तः पुरुषः' (मु. २.१.२) इत्या- दिना दिव्यत्वादिविशेषणश्रवणान्न जीवः । 'अक्षरात् परतः पर' इत्यक्षरस्याव्याक- तस्य परमात्मनश्च॒ भेदेन व्यपदिष्टत्वान्न प्रधानं भूतयोनिः, अपि तु परमात्मैवेत्यर्थः ॥ भूतयोनेः परमात्मत्वे हेत्वन्तरमाह-