प्रथमाध्याये तृतीयः पादः । २३ अस्मिन् प्रादेशपरिमाणे मूर्धचुबुकान्तराले एनं परमेश्वरं जाबाला 'य एषो- ऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठितः' (२) इत्याद्यमनन्ति । अतः प्रादेश- मात्रश्रुतिरुपपन्नत्यर्थः । तस्मात् सर्वात्मकः परमात्मैवेहोपास्य इत्यतिशोभनम् ॥ अस्मिन् पादे सप्ताधिकरणानि । सूत्राणि द्वात्रिंशत् ॥ इति ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां प्रथमाध्यायस्य द्वितीयः पादः । अथ तृतीयः पादः ।
- १ युभ्वाद्यधिकरणम् *
इत्थं द्वितीयपादे अस्पष्टब्रह्मलिङ्गवाक्यानां प्रायश उपास्यत्वेन ब्रह्माण समन्वयः प्रत्यपादि । अधुना तादृशानां वाक्यानां प्रायशो ज्ञेयत्वेन ब्रह्मणि समन्वयं प्रतिपादयितुं तृतीयः पादोऽयमारभ्यते । वैश्वानराधिकरणे त्रैलोक्यात्मा वैश्वानरः परमात्मेत्यभिहितम् । तर्हि त्रैलोक्यायतनमन्यदित्याक्षिप्य समाधानादाक्षेप - सङ्गत्योपक्रमस्थसाधारणशब्दस्य वाक्यशेषस्थद्युसूर्धत्वादिना ब्रह्मपरत्वमुक्तं तद्व- दत्राप्युपक्रमस्थसाधारणामृतत्वस्य ‘अमृतस्यैष सेतुः' इति वाक्यशेषस्थसेतुत्वलिङ्गेन परिच्छिन्नप्रधानादिपरत्वमस्त्विति दृष्टान्तसङ्गत्या चेदमधिकरणमारभते- द्युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥ - " अत्र पूर्वपक्षे प्रधानाद्युपास्तिः सिद्धान्ते ब्रह्मप्रमितिरिति फलभेदः । मुण्डके (२.२.५)श्रूयते – ‘यम्मिन् द्यौः पृथिवी चान्तरिक्षमोतम्' इत्यादि । तत्र द्यु॒भ्वादी- नामोतत्वेन किञ्चिदायतनं प्रतीयते तत् किं प्रधानम्, उत जीव:, आहोस्विद् ब्रह्मोत संशये प्रधानमिति पूर्वः पक्षः । सिद्धान्तस्तु द्यु॒भ्वाद्यायतनं द्यौश्च भूश्च द्यु॒भ्वौ । द्युभ्वावादी यस्य द्यौः पृथिव्यन्तरिक्षमित्येवमात्मकस्य तद् द्यु॒भ्वादि । तस्यायतन- मधिष्ठानं ब्रह्मैव । कुतः, स्वशब्दात् स्वस्य परब्रह्मणो वाचको य आत्मशब्दः ‘तमेवैकं जानथ आत्मानम्' इति श्रुतं तस्मादित्यर्थः । एवञ्चोपक्रमस्थसाधार- णायतनत्वस्य गौणसेतुत्वलिङ्गात् पृथक्छ्रुतात्मश्रुत्या ब्रह्मपरत्वमेव न प्रधानादिप- रत्वमिति भावः ॥ १ ॥ युभ्वाद्यायतनं ब्रह्मेत्यत्र हेत्वन्तरमाह -