पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥ मुक्तैरुपसृप्यं मुक्तोपसृप्यम् | भावप्रधानोऽयं निर्देशः । तथा च 'तथा विद्वान् नामरूपाद्विमुक्तः परात् परं पुरुषमुपैति दिव्यम्' (मु. ३. २. ८) इति ब्रह्मणोऽविद्यातत्कार्यसकलानर्थोच्छेदद्वारा मुक्तप्राप्यत्वस्य व्यपदिश्यमानत्वात् । अतो द्यु॒भ्वाद्यायतनं ब्रह्मैवेत्यर्थः ॥ २ ॥ सिद्धान्तमभिधाय प्रधानपक्षं निषेधति - २४ नानुमानमतच्छब्दात् ॥ ३ ॥ अनुमीयत इत्यनुमानं साङ्ख्यपरिकल्पितं प्रधानं न युभ्वाद्यायतनम् । कस्माद्, अतच्छब्दात् तस्याचेतनस्य प्रधानस्य प्रतिपादकस्तच्छब्दः न तच्छ- ब्दोऽतच्छब्दस्तस्मात् प्रधानप्रतिपादकशब्दश्रवणात् । प्रत्युत तद्विपरीतचेतनप्र- तिपादकस्य ‘यः सर्वज्ञः सर्वविद्' (मु. १.१. ९) इत्यादेः शब्दस्य श्रवणादिति || ननु तर्हि शारीरोऽस्तु सुभ्वाद्यायतनं तस्य चेतनत्वादियोगादित्याश- ट्र्याह - प्राणभृच ॥ ४ ॥ प्राणभृच्छारीरोऽपि न युभ्वाद्यायतनम् । कुतः, अतच्छब्दादेव । शारी- रस्य सर्वज्ञत्वासम्भवात् तत्साधारण आत्मशब्दोऽतच्छब्द एव ॥ ४ ॥ शारीरनिरासे हेत्वन्तरमाह त्रिभिः सूत्रैः भेदव्यपदेशात् ॥ ५ ॥ ‘तमेवैकं जानथ' (मु. २.२. ५) इति ज्ञातृज्ञेयभावेन जीवपरयोर्भेदेन व्यपदिश्यमानत्वादित्यर्थः ॥ ५ ॥ प्रकरणात् ॥ ६ ॥ 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातम्' (मु. १.१.३) इत्युपक्रमाद् ब्रह्मण एवेदं प्रकरणम् । न हि शारीरज्ञानात् सर्वविज्ञानं भवति । तस्मात् प्रकर- णादपि न शारीर इत्यर्थः ॥ ६ ॥ स्थित्यदनाभ्यां च ॥ ७ ॥