प्रथमाध्याये तृतीयः पादः । २५ 'द्वा सुपर्णा' (३. १. १) इति मन्त्रे 'अनश्नन्नन्योऽभिचाकशीति' इत्यौ- दासीन्येन स्थितिः परमात्मनो निर्दिश्यते । 'तयोरन्यः पिप्पलं स्वाद्वत्ति' इत्यदनं शारीरस्य । अतः स्थित्यदनाभ्यां न शारीरो द्यु॒भ्वायतनम्, अपि तु परब्रह्मैवेति सिद्धम् ॥ ७ ॥ २ भूमाधिकरणम् * पूर्वमात्मशब्दाद् सुभ्वाद्यायतनं ब्रह्मेत्युक्तम् । 'तरति शोकमात्मविद्' (छा. ७. १. ३) इत्यत्राब्रह्मणि प्राणेऽप्यात्मशब्दप्रयोगादित्याक्षेपिकसङ्गत्येदमाह - भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥ अत्र पूर्वपक्षे प्राणोपास्तिः सिद्धान्ते ब्रह्मधीः फलमिति भेदः । छान्दोग्ये (७. २३) श्रूयते – 'भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति' 'यत्र नान्यत् पश्यति' (छा ७-२४- १) इत्यादि । तत्र किं प्राणो भूमा उत परमात्मेति सन्देहे प्राण इति पूर्वः पक्षः। सिद्धान्तस्तु भूमा परमात्मैव, कुतः, सम्प्रसादादध्युप- देशात् । सम्यक् प्रसीदत्यस्मिञ् जीव इति सम्प्रसादः सुषुप्त्यवस्था । तस्यां प्राणो जागतीति सम्प्रसादशब्देन प्राणोऽभिधीयते, प्राणादधि प्राणोपदेशानन्तरम् 'एष तु वा अतिवदति यः सत्येनातिवदति' (छा. ७. १६. १) इति तुशब्देन प्राण- वादस्यानतिवादित्वमभिधाय सत्यशब्दवाच्य परमात्मवादस्यातिवादित्वं ब्रुवता भून एवोपदिश्यमानत्वात् । ‘तरति शोकमात्मविद् ' इति प्रश्नवाक्य आत्मोपक्रमेणात्म- प्रकरणात् प्राणसन्निधेर्दुर्बलतया न प्राणो भूमा किन्तु परमात्मैवेति सिद्धम् ॥ ८ ॥ परमात्मनो भूमत्वे युक्त्यन्तरमाह- धर्मोपपत्तेश्च ॥ ९ ॥ 'यत्र नान्यत् पश्यति' (छा. ७-२४-१) इत्यादिनोक्तानां सर्वव्यवहाराभा- वादिधर्माणां परमात्मन्येवोपपत्तेः परमात्मैव भूमेत्यर्थः ॥ ९ ॥
- ३ अक्षराधिकरणम्
पूर्व सत्यशब्दस्य ब्रह्मणि रूढत्वाद् भूमा ब्रह्मेत्युक्तम् । तद्वदिहाप्यक्षर- शब्दस्य वर्णे रूढत्वाद्वर्ण एवाक्षरमस्त्विति दृष्टान्तसङ्गत्येदमाह - अक्षरमम्बरान्तधृतेः ॥ १० ॥ अत्र पूर्वपक्ष ओङ्काररूपाक्षरोपास्तिः सिद्धान्ते ब्रह्मज्ञानमिति फलभेदः ।