प्रथमाध्याये तृतीयः पादः ।
- ५ दहराधिकरणम् *
पूर्व परपुरुषशब्दस्य ब्रह्मणि रूढत्वाद् ब्रह्मोपास्यमित्युक्तम् । तद्वदिहाप्या- काशशब्दस्य भूताकाशे रूढत्वात् तस्यैवोपास्यत्वमस्त्विति दृष्टान्तसङ्गत्येदमाह- दहर उत्तरेभ्यः ॥ १४ ॥ 2 अत्र पूर्वपक्षे आकाशाद्युपास्तिः सिद्धान्ते ब्रह्मोपास्तिरिति फलभेदः । छान्दोग्ये (८-१-१) श्रूयते – 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश' इत्यादि । तत्र दहरपुण्डरीकेऽन्तर्दहराकाशः श्रुतः । स किं भूताकाश उत जीव उताहो परमात्मेति संशये भूताकाशादिरिति पूर्वः पक्षः । सिद्धान्तस्तु दहराकाशः परमात्मैव, कस्माद्, उत्तरेभ्यः 'यावान् वा अयमाकाशस्ता- वानेषोऽन्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते' (छा ८-१-३) 'एष आत्मा अपहतपाप्मा (छा ८-१-५) इत्यादिवाक्यशेषगतेभ्य आकाशोपमान- त्वद्यावापृथिव्यधिष्ठानत्वात्मत्वापहतपाप्मत्वादिहेतुभ्य इत्यर्थः ॥ १४ ॥ दहराकाशस्य परब्रह्मपरत्वे हेत्वन्तरमाह - गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ॥ १५ ॥ ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति' (छा ८-३-२) इति दहरवाक्यशेषे प्रजाशब्दवाच्यानां जीवानां प्रत्यहं मुच्यमानानां प्रकृतदहरवि- षया या गतिर्यश्च ब्रह्मलोकशब्दस्ताभ्यां दहरस्य परब्रह्मतावगम्यते । तथाहि दृष्टं श्रुत्यन्तरे - 'सता सोम्य तदा सम्पन्नो भवति' (छा ६-८-१) इति । एवञ्च प्रत्यहं हिर- ण्यगर्भलोकगमनासम्भवाद् ब्रह्मैव लोक इति सामानाधिकरण्यपरिग्रहे अहरहर्गम- नमेव लिङ्गं ज्ञापकम् | चशब्देन निषादस्थपतिन्यायोऽपि सामानाधिकरण्यपरिग्रहे सूचित इति ध्येयम् ॥ १५ ॥ दहरस्य परब्रह्मत्वे हेत्वन्तरमाह द्वाभ्याम् - - धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६॥ ‘अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्मेदाय' इति (छा ८-४-१) श्रुताया धृतेरपि हेतोर्दहराकाशः परमात्मैव । अस्य च सर्वलोकविधारणलक्षणम- हिम्नोऽस्मिन् परमात्मनि 'एष भूतपाल एष सेतुर्विधरणे' (बृ. ४-४-२२) इत्यादि श्रुत्यन्तरेऽप्युपलब्धेरित्यर्थः ॥ १६ ॥