प्रथमाध्याये तृतीयः पादः ।
- ६ अनुकृत्यधिकरणम् *
पूर्व ‘परं ज्योतिरुपसम्पद्ये’ति वाक्यार्थविचारप्रसङ्गात् 'तच्छुभ्रं ज्योतिषां ज्योतिः' (मु. २-२-९) इति वाक्योक्तपरज्योतिष्वसाधकं 'न तत्र सूर्य' इत्यादि- वाक्यं विचार्यत इति प्रसङ्गसङ्गत्येदमाह -- अनुकृतेस्तस्य च ॥ २२ ॥ अत्र पूर्वपक्षे अलौकिकतेजस उपास्तिः, सिद्धान्ते निर्विशेष ब्रह्मधीरिति फल- भेदः | मुण्डके (२-२-१०) श्रूयते - 'न तत्र सूर्यो भाति न चन्द्रतारकम्’ इत्यादि । तत्र सूर्यादिजगद्भासकतया प्रतीयमानं किं तेजोविशेष उत ब्रह्मेति संशये प्रबलेन तेजसा दुर्बलस्याभिभवदर्शनात् तेजोविशेष इति पूर्वः पक्षः । सिद्धान्तस्तु तथा प्रतीयमानं ब्रह्मैव, कुतः, अनुकृतेः अनुक्कृतिरनुकरणं तस्मात् ‘तमेव भान्तमनुभाति सर्व' मित्यनुभानात् । न हि सूर्यादिकं तेजस्तेजोऽन्तरम- नुभाति, लोके तददर्शनात् । तर्हि प्राप्तं स्वतः सूर्यादेर्भानमित्यत्राह तस्य चेति । • तस्य भासा सर्वमिदं विभाती' ति ब्रह्मभासा भास्यत्वावगमात् । न च विपरीतं किं न स्यादिति वाच्यं, 'तच्छुभ्रं ज्योतिषां ज्योतिरि'ति वाक्योपक्रमे ब्रह्मणः स्वयञ्ज्योतिष्ट्वावगमाद्, ‘न तत्रे'ति तच्छब्देन तस्यैव प्रकृतज्योतिषः परामर्शात् । अतः स्वयञ्ज्योतिः सूर्यादिसकल जगदवभासकं ब्रह्मैव न तु लौकिकं तेजः, तस्या- त्राप्रकृतत्वादिति सिद्धम् ॥ २२ ॥ अस्मिन्छ्रुत्युक्तार्थे स्मृतिं दर्शयितुमाह- २९ अपि च स्मर्यते ॥ २३ ॥ 'न तद् भासयते सूर्यो न शशाङ्को न पावकः । यदादित्यगतं तेजो जग- द्भासयतेऽखिलम्' (१५-६) इति भगवद्गीतासु स्मर्यत इत्यर्थः ॥ २३ ॥
७ प्रमिताधिकरणम् पूर्वमनुभानादिना लिङ्गेन तत्रेति विषयसप्तमीं कृत्वा न भातीत्यादौ णिज- ध्याहारेण न भासयतीत्यर्थो वर्णितप्रायः । तथेहाण्यङ्गुष्ठमात्र इति परिमाण- लिङ्गाज्जीवमादायेशानोऽस्मीति भावयेदिति विध्यध्याहारेणोपास्तिपरमङ्गुष्ठवाक्य- मस्त्विति दृष्टान्तसङ्गत्येदमाह- शब्दादेव प्रमितः ॥ २४ ॥ अत्र पूर्वपक्षे जीवोपास्तिः, सिद्धान्ते तस्यैव परमात्मतया धीरिति फल-