ब्रह्मसूत्रवृत्तौ ब्रह्मतत्वप्रकाशिकाय भेदः । कठवल्लीषु (२. ४. १३) श्रूयते - अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवा- धूमकः । ईशानो भूतभव्यस्य' इति । तत्र किमिदमङ्गुष्ठवाक्यप्रतिपाद्यं जीवः उत ब्रह्मात्मेति सन्देहे जीव इति पूर्वः पक्षः । सिद्धान्तस्तु प्रमितवाक्यप्रतिपाद्यः प्रत्यगभिन्नपरमात्मैव, कुतः, शब्दादेव ' ईशानो भूतभव्यस्ये' त्यत्रेशानशब्दात् । न चाङ्गुष्ठमात्रजीवलिङ्गविरोध:, लिङ्गश्रुत्योर्विरोधे श्रुतेरेव बलवत्त्वात् । न च परमात्मनोऽङ्गुष्ठमात्रत्वानुपपत्तिः, अङ्गुष्ठमात्रजीवानुवादेन ब्रह्माभेदबोधनादिति समञ्जसम् ॥ २४ ॥ ननु जीवस्य परमार्थतः सर्वगतब्रह्मत्वेन कथमङ्गुष्ठमात्रत्वमित्यत आह-- हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥ तुशब्दः शङ्कानिरासार्थः । मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्याणां हृदय- स्याङ्गुष्ठमात्रत्वात् तदपेक्षया सर्वगतस्यात्मनोऽङ्गुष्ठमात्रत्वं सिद्धम् । अतोऽष्ठ- बाक्ये प्रतिपाद्यः परमात्मैवेति सिद्धम् ॥ २५ ॥
- ८ देवताधिकरणम् *
पूर्व मनुष्याधिकारं शास्त्रमित्युक्तम् । तर्हि अमनुष्याणां देवादीनामधिकारो न स्यादित्याक्षिप्य समाधीयत इत्याक्षेपसङ्गत्या प्रसङ्गसङ्गत्या चेदमाह - तद - पर्यपि बादरायणः सम्भवात् ॥ २६ ॥ - अत्र पूर्वपक्षे मन्त्राद्यप्रामाण्यादुपगमनादिवाक्यानामपि स्वार्थे तदयोगात् तत्त्वमस्यादेरपि नैक्यनिष्ठतेति फलम् । सिद्धान्ते तत्सर्वसम्भवादैक्यनिष्ठतेति फलम् । बृहदारण्यके (१-४-१०) श्रूयते - 'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवद्' इत्यादि । तत्र किं देवानां ब्रह्मविद्यायामधिकारोऽस्ति न वेति सन्देहे नास्तीति पूर्वः पक्षः । सिद्धान्तस्तु तदुपर्यपि तेषां मनुष्याणामुपरिष्टाद्ये देवादय- स्तेषामपि ब्रह्मविद्यायामधिकारोऽस्तीति बादरायण आचार्यो मन्यते, कस्मात्, सम्भवाद् अर्थित्वसामर्थ्याद्यधिकारकारणस्य सम्भवादित्यर्थः ॥ २६ ॥ ननु यदीन्द्रादीनां विग्रहवत्त्वेन विद्याधिकारस्तर्हि कर्मणि विरोध इत्या- शङ्कयाह- विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥ इन्द्रादीनामृत्विगादिवदेकस्य शरीरस्यानेकत्र कर्मणि युगपत्सन्निधानासम्भ- वात् कर्माणि विरोधः प्रसज्येतेति चेन्न, कस्माद्, अनेकप्रतिपचेर्दर्शनाद् एक- स्यापीन्द्रस्यानेकेषां शरीराणां युगपत् प्राप्तेः 'स एकधा भवति त्रिधा भवति' (छा. ७-