पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्याये तृतीयः पादः । ज्योतिरत्र ब्रह्मैव कुतः, दर्शनाद्, 'य आत्मापहृतपाप्मा' (छा. ८. ७. १) इत्युप- क्रमालोचनया ब्रह्मण एव प्रतिपाद्यतयानुवृत्तिदर्शनादित्यर्थः ॥ ४० ॥

  • १२ अर्थाीन्तरत्वादिव्यपदेशाधिकरणम् *

पूर्वमुपक्रमवशादर्थान्तरे प्रसिद्धोऽपि ज्योतिश्शब्दः स्वार्थात् प्रच्यावितः । तथाकाशोपक्रमवशाज् ब्रह्मादिशब्दोऽपि स्वार्थात् प्रच्याव्यतामिति दृष्टान्तसङ्गत्ये- आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥ दमाह -- अत्र पूर्वपक्षे भूताकाशात्मकब्रह्मोपास्त्या क्रममुक्तिः सिद्धान्ते ब्रह्मधिया मुक्तिरिति फलभेदः । छान्दोग्ये (८.१४. १) श्रूयते - 'आकाशो हवै नाम नाम - रूपयोर्निर्वहिते'त्यादि । तत्र किमाकाशशब्दितो भृताकाश उत परमात्मेति विश भूताकाश इति पूर्वः पक्षः । सिद्धान्तस्तु परमात्मैवाकाशशब्दितः । कस्माद, अर्था न्तरत्वादिव्यपदेशात् 'ते यदन्तरे' त्याकाशस्य नामरूपाभ्यामर्थान्तरत्वेन व्यप- देशात् आदिशब्डेन 'तम तदमृतं स आत्मा' इति ब्रह्मत्वादिव्यपदेशो द्रष्टव्यः ॥ ४१ ॥

  • १३ सुषुप्त्युत्क्रान्त्यधिकरणम्

पूर्व नामरूपाभ्यां भेदोक्तेराकाशो ब्रह्मेत्युक्तम् । तन्न | ‘प्राज्ञेनात्मना सम्परिष्वक्तः' इत्यत्राभिन्नेsपि जीवे भेदोपचारादित्याक्षिप्य समाधानादाक्षेपिक- सङ्गत्येदमाह - सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥ अत्र पूर्वपक्षे जीवानुवादेन कर्मशेषकर्तृस्तुतिः सिद्धान्ते तदनुवादेन तत्ता- दात्म्यधीरिति फलभेदः । वृहदारण्यके (४.४.२२) श्रूयते – 'योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुष' इत्यादि । तत् किं जीवानुवादकम् उत तदनुवादेनासं- सारिस्वरूपप्रतिपादकमिति सन्देहे जीवानुवादकमिति पूर्वः पक्षः । सिद्धान्तस्तु विज्ञानमयसुषुप्तवाद्यवस्थावज्जीवानुवादेन ब्रह्माभेदप्रतिपादकमिदं वाक्यम् । क स्मात्, 'प्राज्ञेनात्मना सम्परिप्वक्तो न बाह्यं किञ्चन वेद नान्तरम्' (बृ. ४.३. २१) 'प्राज्ञेनात्मनान्वारूढः उत्सर्जन याति' (बृ. ४. ३. ३५) इति सुषुप्त्यु- त्क्रान्त्योरवस्थयोः शारीराइ भेदेन परमात्मनः प्राज्ञशब्देन व्यपदेशादित्यर्थः || इतश्च ब्रह्माभेदप्रतिपादकमिदं वाक्यमित्याह -- पत्यादिशब्देभ्यः ॥ ४३ ॥