ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां 'सर्वस्य बशी सर्वस्येशानः सर्वस्याधिपतिः' (बृ. ४. ४.२२) इति पत्यादिशब्दा असंसारित्वप्रतिपादकाः । स न सावुना कर्मणा भूयान्' इत्याद्याः संसारित्वनिषेधका एतद्वाक्यगताः । तेभ्योऽसंसारिब्रह्मात्मप्रतिपादकमिदं वाक्यमिति समञ्जसम् ॥ ४३ ॥ अस्मिन् पादे त्रयोदशाधिकरणानि । सूत्राणि त्रिचत्वारिंशत् || इति ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां प्रथमाध्यायस्य तृतीयः पादः । ३६
अथ चतुर्थः पाद: । १ आनुमानिकाधिकरणम् * पूर्वमक्षत्यधिकरणे गतिसामान्यमशब्दत्वं च प्रतिज्ञाय तत्र वेदान्तानां ब्रह्मणि गतिसामान्यं पादत्रयेण प्रत्यपादि । अधुना प्रधानस्याशब्दत्वमाक्षिप्य समाधीयत इत्याक्षेपसङ्गत्या चतुर्थपादोऽयमारभ्यते । पूर्व 'सुषुप्त्युत्कृान्त्योर्भेदेन' (त्र. १. ३. ४२) इत्यत्र प्रसिद्धजीवोक्तिभङ्गेनाप्रसिद्ध ब्रह्मोक्तिवदप्रसिद्धप्रधानो- क्तिपरमेव काठकवाक्यमस्त्विति दृष्टान्तसङ्गत्वेदमधिकरणमारभते - आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीते- दर्शयति च ॥ १ ॥ अत्र पूर्वपक्षे ब्रह्मण्येव वेदान्तानां समन्वय इति नियमाभावः फलं सिद्धान्ते तादृशानियम इति विवेकः । कठवलपुि (१-३-११) श्रूयते-'महतः पर- मव्यक्तमव्यक्तात् पुरुषः परः' इति । तत्र किमव्यक्तशब्देन प्रधानमुच्यते उत पूर्वप्रकृतं शरीरमिति संशये साङ्ख्यस्मृतौ महदव्यक्तपुरुषशब्दानां तत्तत्प्रत्ययेऽप्र- • सिद्धत्वाद। नुमानिकमनुमानगम्यं प्रधानमप्येकेषां शाखिनां प्रत्यक्षमव्यक्तशब्देन पठ्यत इत्यशब्दत्वमसिद्धमिति चेदिति पूर्वः पक्षः । सिद्धान्तस्तु न प्रधानम् । कुतः, शरीररूपकविन्यस्तगृहीतेः 'शरीरं रथमेव तु' (का. १-३-३) इत्यस्मिन् पूर्व- वाक्ये शरीरस्य रथरूपकेण विन्यस्तस्य कल्पितस्याव्यक्त शब्देन गृहीतेर्ग्रहणात् । कथं तच्छब्दग्राह्यं शरीरमित्यत आह दर्शयति च । पूर्वापरवाक्यसन्दर्भः पर्यालो- च्यमान औचित्येन प्रकृतं शरीरमेवाव्यक्तग्राह्यं दर्शयतीत्यर्थः ॥ १ ॥ ननु स्थूलशरीरस्य व्यक्तशब्दार्हस्य कथमव्यक्तशब्दार्हत्वमित्यत आइ-