प्रथमाध्याये चतुर्थः पादः । सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥ दर्शयतीत्यनुषङ्गः । तुशब्दः शङ्कानिरासार्थः । स्थूलशरीरारम्भकं भूतसूक्ष्म कारणमव्यक्तशब्देन दर्शयति । कुतः, तदर्हत्वाद् अव्यक्तशब्दार्हत्वादित्यर्थः । " गोभिः श्रीणीत मत्सरम्' (ऋ. सं. ७-४६-४) इत्यादिवत् प्रकृतिवाचकशब्देन विकारो लक्ष्यत इति भावः ॥ २ ॥ ननु भूतसूक्ष्माव्यक्ताङ्गकारे तस्यैव प्रधानत्वेन साङ्ख्यैरङ्गीकारात् तद्वादः प्राप्त इत्यत आह तदधीनत्वादर्थवत् ॥ ३ ॥ , न स्वतन्त्रप्रधानवादोऽस्माभिरङ्गीकृतः । कस्मात् तदधीनत्वाद् ईश्वराधी- नत्वादव्यक्तस्य । तर्हीिश्वरादेवास्तु जगदुत्पत्तिः किं तेनात आह अर्थवत् । 'मायिनं तु महेश्वरम्' (श्वे. ४-१०) इति श्रुताव व्यक्तस्येश्वर सहकारित्वावगमात् प्रयोजन - वव्यक्तमित्यर्थः ॥ ३ ॥ अव्यक्तं न प्रधानमित्यत्र हेत्वन्तरमाह- ज्ञेयत्वावचनाच्च ॥ ४ ॥ प्रधानपुरुषविवेकात् कैवल्यं वदद्भिः साङ्ख्यैर्ज्ञेयत्वेन प्रधानमभिधीयते । न चात्राव्यक्तशब्दमन्तरेण ज्ञातव्यमव्यक्तमिति वचस्समस्ति । अतो ज्ञेयत्वस्यावच- नादनभिधानान्नाव्यक्तं प्रधानमित्यर्थः ॥ ४ ॥ ननु ज्ञेयत्वावचनमसङ्गतमित्याशङ्कयाह - वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥ 'महतः परं ध्रुवं निचाय्य' (का. २-३-१५) इत्युत्तरवाक्यमव्यक्तशब्दितं प्रधानं ज्ञेयत्वेन वदतीति चेन्न । प्राज्ञो हि परमात्मा हि निचाय्यत्वेन निर्दिष्टो न प्रधानम् । कस्मात्, ‘पुरुषान्नापरं किञ्चिद्' (का. २-३-११) इत्यात्मप्रकरणा- दित्यर्थः ॥ ५ ॥ इतश्च न प्रधानमंत्र ग्राह्यमित्याह - th 2 त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥ १. गोभिर्गोधिकारैः पयोभिः
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/५१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति