द्वितीयाध्याये प्रथमः पादः । त्वाचेतनत्वैकविज्ञानप्रतिज्ञानुपपत्त्यादयस्तेषामण्वादिपक्षेऽपि साम्येन सर्वाण्वादि- कारणवादा निराकृतत्वेन व्याख्याताः । नचासदित्यादिशब्दविरोधः तत्रासच्छ- ब्दस्यानभिव्यक्तनामरूपपरत्वेनाविरोधात् । सूक्ष्मत्वाच्चात्मन्यणुशब्दो गौणः । स्व- भाववादस्तु पूर्वपक्षत्वेनोपन्यस्तः । व्याख्याता इति पदाभ्यासोऽध्यायपरिसमा प्त्यर्थः । तस्माज्जगत्कारणे सर्वज्ञे जिज्ञास्ये ब्रह्माण वेदान्तानां समन्वयो नान्य- त्रेति सिद्धम् ॥ २८ ॥ अस्मिंश्चतुर्थपादे अष्टावधिकरणानि । सूत्राण्यष्टाविंशतिः । चतुस्त्रिंशत्परं सूत्रं शतकं तु समन्वये । अध्याये तद्वदेकोनचत्वारिंशन्नया मताः ॥ ब्रह्मनानि परे धाम्नि प्रत्यपादि समन्वयः । त्रय्यन्तसन्ततेर्यस्मिंस्तदस्मि ज्योतिराततम् || इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपरमशिवेन्द्रसरस्वतीपादाब्ज- सेवापरायणेन श्रीसदाशिवेन्द्रसरस्वत्या विरचितायां ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां प्रथमाध्यायस्य चतुर्थः पाद: । समाप्तश्च समन्वयाध्यायः । अथ द्वितीयोऽध्यायः ।
- १ स्मृत्यधिकरणम् *
इत्थं प्रथमेऽध्यायेऽभिहितसमन्वयस्य स्मृत्यादिविरोधे तन्निरसनमनेन क्रियत इति विषयविषयिभावसङ्गत्यायं द्वितीयोऽध्याय आरभ्यते । अत्र पूर्वमतिदे- शाधिकरणे प्रधानवदशब्दत्वमण्वादीनामप्यभिहितम् । अधुना प्रधानस्य वैदिक- शब्दत्वाभावेऽपि स्मृतिरूपशब्दवत्त्वमाक्षिप्य परिट्रियत इत्याक्षेपसङ्गत्येदमाह- स्मृत्यनवकाशदोषप्रसङ्घ इति चेन्नान्यस्मृत्यनव- काशदोषप्रसङ्गात् ॥ १ ॥ अत्र पूर्वपक्षे स्मृतिविरोधे समन्वयासिद्धिः सिद्धान्ते तदविरोधे तसिद्धि- रिति फलभेदः । उक्तसमन्वयः किं सांख्यस्मृत्या विरुध्यत उत नेति सन्देहे महर्षि -