ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां समन्वयो विरुध्यत इति प्रणीतप्रधानकारणवादस्मृतीनामनवकाशरूपदोषप्रसङ्गात् प्रधानानुगुणतया श्रुतयो नेया इति चेदिति पूर्वः पक्षः । सिद्धान्तस्तु न समन्व- यो विरुध्यते, कुतः, अन्यस्मृत्यनवकाशदोषप्रसङ्गात् । चेतनं प्रकृत्य 'तस्मादव्य- तमुत्पन्नं त्रिगुणं द्विजसत्तम !' इत्यादिकानां चेतनकारणत्ववादिनीनामन्यासां स्मृतीनामनवकाशदोषः प्रसज्येत । अतः स्मृतिद्वयविरोधेऽपि श्रुत्यविरुद्धा स्मृतिः प्रमाणमित्यप्रमाणसांख्यस्मृत्या समन्वयो न विरुध्यत इत्यर्थः ॥ १ ॥ इतश्च साङ्ख्यस्मृतरनवकाशो न दोष इत्याह- इतरेषां चानुपलब्धेः ॥ २ ॥ ४६ साङ्ख्यस्मृतिप्रसिद्धानामितरेषां महदादितत्त्वानां लोके बेदे चानुपलब्धेश्च साङ्ख्यस्मृतेरप्रामाण्यं न दोषः । तथा च तदेकदेशप्रधानस्मृतेरप्यप्रामाण्य मिति भावः ॥ २ ॥
- २ योगप्रत्युक्त्यधिकरणम् *
उक्तन्यायमन्यत्राप्यतिदिशति- एतेन योगः प्रत्युक्तः ॥ ३ ॥ अस्यातिदेशत्वान्न पृथक्सङ्गत्यपेक्षा । फलन्तु पूर्ववत् । उक्तसमन्वयः किं योगस्मृत्या विरुध्यते न वेति सन्देहे श्रुतिसिद्धयोगप्रतिपादकत्वेन प्रामाण्यात् तया प्रधानकारणवादिन्या समन्वयो विरुध्यत इति पूर्वः पक्षः । सिद्धान्तस्तु एतेन साङ्ख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपि प्रत्युक्ता प्रत्याख्याता द्रष्टव्या । श्रुत्यवि- रुद्धाष्टाङ्गयोगे तात्पर्यवत्त्वेन प्रामाण्येऽपि तद्विरुद्धप्रधाने तात्पर्याभावादप्रामाण्यमिति भावः ॥ ३ ॥
- ३ विलक्षणत्वाधिकरणम् *
पूर्व वेदविरुद्धस्मृतेर्मूलाभावादप्रामाण्यमुक्तम् । तर्हि तर्कस्य व्याप्तिपक्षधर्म- तयोर्मूलत्वे लोकसिद्धत्वात् तेन विरोध इति प्रत्युदाहरणसङ्गत्येद्रमाह न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥ अत्र पूर्वोत्तरपक्षयोः समन्वयासिद्धिस्तत्सिद्धिरिति फलभेदः । आकाशा- दिकं न चेतनप्रकृतिकं द्रव्यत्वाद् घटवदिति तर्केण समन्वयो विरुध्यते न वेति स- न्देहे पूर्वः पक्षः । न जगश्चेतनप्रकृतिकं, कुतः, विलक्षणत्वाद् अस्याचेतनस्य -