पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्याये प्रथमः पाद: । जगतश्चेतनाद्विलक्षणत्वाद् । यद् यद्विलक्षणं न तत् तत्प्रकृतिकं, यथा तन्तुविलक्षणो घटो न तन्तुप्रकृतिक इति । ननु ब्रह्मजगतोर्वैलक्षण्यं कुतः, तथात्वं च शब्दात् तथात्वं वैलक्षण्यं ‘विज्ञानं चाविज्ञानं चाभवद्' (तै. २-६) इत्यादिश्रुतितोऽवगत- मित्यर्थः : ॥ ४॥ ४७ ननु 'ते हेमे प्राणा अहं श्रेयसे विवदमाना' ( वृ. ६. १. ७) इत्यादि- काभिः श्रुतिभिर्ब्रह्मवज्जगच्चेतनमवगम्यत इत्याशङ्कयाह- अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५॥ उक्तशङ्कानिरासार्थस्तुशब्दः । उक्तश्रुतिभिर्न जगतश्चेतनत्वं प्रत्येतव्यम् । यतः प्राणाद्यभिमानिनीनां देवतानां तत्र व्यपदेशो भवति न प्राणादिमात्रस्य, कुतः, विशेषानुगतिभ्यां विशेषणं विशेषः अनुगतिश्च ताभ्याम् । 'एता हवै देवता अहं श्रेयसे विवदमाना' (कौ. २. १४) इति प्राणानां चेतनवाचिना देवताशब्देन विशेषितत्वाद् ‘अग्निर्वाग् भूत्वा मुखं प्राविशद् ' (ऐ आ. २-४-२-४) इत्यादि (तत्रा?) मन्त्रार्थवादादिषु सर्वत्र तदभिमानिदेवतानामनुगतिश्रवणाच्च न चेतनं जगत् । तस्मा- दचेतनस्य जगतो वैलक्षण्यान्न चेतनप्रकृतिकत्वम् ॥ ५ ॥ एवं पूर्वपक्षे सिद्धान्त:- दृश्यते तु ॥ ६ ॥ पूर्वपक्षनिरासार्थस्तुशब्दः । यदुक्तं चेतनविलक्षणं जगन्न तत्प्रकृतिकमिति तन्न । चेतनात् पुरुषात् तद्विलक्षणानां नखलोमादीनामचेतनानामचेतनाच्च गो- मयाच्चेतनवृश्चिकादीनामुत्पत्तिर्यतो दृश्यते अत इत्यर्थः । प्रकृतिविकारयोरत्यन्त- सादृश्ये प्रकृतिविकारभावानुपपत्त्या यत् किञ्चित् सादृश्यं वाच्यम् । तच्च प्रकृतेऽपि जगत्स्फुरणाद्यनुवृत्त्या समानमिति भावः ॥ ६ ॥ असत्कार्यवादमाशङ्कय निराचष्टे- असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥ चेतनस्य नामरूपादिहीनस्याचेतननामादिमज्जगद्धेतुत्व उत्पत्तेः पूर्वं जग- दसदेव स्यादिति चेन्न, कुतः, प्रतिषेधमात्रत्वाद् असत् स्यादिति योऽयं प्रतिषेधस्त- न्मात्रत्वाद्, न तु प्रतिषेध्यमस्तीत्यर्थः । कार्यसत्तायाः कारणाव्यतिरेकात् स्थितिद- शायामिवोत्पत्तेः पूर्वमपि ब्रह्मात्मकमेवेदं जगन्नासादति भावः ॥ ७॥