ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय जगद्ब्रह्मणोरुक्तं कार्यकारणत्वममृष्यमाणश्चोदयति-- अपीतौ तइत्प्रसादसमञ्जसम् ॥ ८ ॥ ॥ शुद्धत्वादिगुणकं ब्रह्म जगदुपादानमित्यसमञ्जसं, कुतः, अपीतौ तद्वत्प्रस- नाद् अपीतौ प्रलयसमये तद्वत् कार्यवत् कारणस्यापि ब्रह्मणोऽशुद्धत्वादि प्रस- ज्येतेत्यर्थः । प्रलये अशुद्ध्यादिगुणकं जगद् ब्रह्मणि लीयमानं स्वनिष्ठाशुद्ध्यादि- धर्मैर्ब्रह्म दूषयेदिति भावः ॥ ८ ॥ एवमाक्षेपे परिहरति- । न तु दृष्टान्तभावात् ॥ ९ ॥ तुरेवकारार्थः । पूर्वोक्तमसमञ्जसं नास्त्येव, कुतः, दृष्टान्तभावात् । कार्य कारणे लीयमानं स्वधर्मेण कारणं न दूषयतीत्यस्मिन्नर्थे शतशो दृष्टान्तानां यथा घटादिकं कार्य मृदि लीयमानं मृदं स्वधर्मेण न दूषयतीत्येवमादिकानां सत्त्वादि- त्यर्थः ॥ ९ ॥ इत्थं स्वपक्षे दोषान् परिहृत्य तानेव परपक्षे योजयति- स्वपक्षे दोषाच्च ॥ १० ॥ ये दोषा विलक्षणत्वात् प्रकृतिविकारभावानुपपत्तिरुत्पत्तेः प्राग् जगतोऽस- त्त्वप्रसङ्गोऽपीतौ तद्वत् प्रसङ्ग इति साङ्ख्येनोद्भाविताः, ते सायपक्षेऽपि समानाः शब्दादिहीनप्रधानसकाशाच्छब्दादिमतो विलक्षणस्य जगत उत्पत्त्यङ्गीकारादित्य- र्थः । वस्तुतः प्रपञ्चसत्यत्ववादिनः साङ्ख्यस्यैवैतै दोषाः न मेऽनिर्वचनीयवादिन इति भावः ॥ १० ॥ इतश्च न केवलेन तर्केण समन्वयो विरुध्यत इत्याह- तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॥ यत्रत एकेन तार्किकेणानुमितोऽप्यर्थोऽन्येन श्रेष्ठतरेणान्यथा नीयत इति केवलस्य तर्कस्याप्रतिष्ठानादप्यप्रतिष्ठितत्वाच्च न तेन समन्वयविरोधशङ्केत्यर्थः । ननु कस्यचित् तर्कस्याप्रतिष्ठितत्वेऽपि कस्यचित् प्रतिष्ठितत्वसम्भवात् तेन समन्व- यविरोधशङ्का युक्तेत्याक्षिपति 'अन्यथानुमेयमिति चेद्' अप्रतिष्ठिततर्कादन्येन प्रकारेण प्रतिष्ठिततर्केण समन्वयविरोधादिकमनुमेयमिति चेदत्र समाधत्ते । एवम- १. 'प्यविमोक्ष' मुद्रितब्रह्मसूत्र पुस्तकेषु पाठो दृश्यते.
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/६२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति