द्वितीयाध्याये प्रथमः पादः । ४९ ध्यन्यत्र तर्कस्य प्रतिष्ठितत्वेऽपि प्रकृते लिङ्गादिहीने ब्रह्मणि वेदानिरपेक्षस्थ तर्कस्याप्र- तिष्ठितत्वदोषादनिर्मोक्षप्रसङ्गः । यद्वा महतां कपिलकणादादीनां परस्परविप्रतिपन्नै- रागमनिरपेक्षैस्तर्कैस्तत्त्वनिर्णयाभावादनिर्मोक्षप्रसङ्गः । तस्मादागमविरोधितर्कोऽप्रमा- णमिति न तेन विरोध इति सिद्धम् ॥ ११ ॥
- ४ शिष्टापरिग्रहाधिकरणम्
उक्तन्यायमन्यत्रातिदिशति --- एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥ अस्यातिदेशत्वान्न पृथक् सङ्गत्यपेक्षा । फलं तु पूर्ववत् । ब्रह्म न जगदु- पादानं विभुत्वाद् व्योमवदित्यादितार्किकाभिमतन्यायेन ब्रह्मकारणबोधकः समन्वयो विरुध्यते न वेति सन्देहे विरुध्यत इति पूर्व: पक्षः । सिद्धान्तस्तु एतेन मन्वा - दिभिः शिष्टैः केनचित्कार्यवादाद्यंशेन परिगृहीतप्रधानवादनिराकरणप्रकारेण शिष्टा- परिग्रहाः शिष्टैः केनचिदप्यंशेनापरिगृहीता अण्वादिकारणवादा व्याख्याता निरस्ता द्रष्टव्याः । अतस्तार्किकन्यायस्य वेदबाधितत्वान्न तेन विरोध इति सिद्धम् ॥ १२ ॥
- ५ भोक्रापत्त्यधिकरणम् *
पूर्व ब्रह्मणि तर्कस्याप्रतिष्ठितत्वेऽपि जगद्धेदे प्रत्यक्षस्य प्रतिष्ठितत्वाद् विरु- ध्यत एवेति प्रत्युदाहरणसङ्गत्येदमाह- भोकापत्तेरविभागश्चेत् स्यालोकवत् ॥ १३ ॥ फलं तु पूर्ववत् । अद्वितीयब्रह्मणो जगत्सर्ग ब्रुवन् समन्वयः प्रत्यक्षेण विरुध्यते न देति सन्देहे अद्वितीयब्रह्मणो जगदुपादानत्वे भोक्तृभोग्यप्रपञ्चस्य सर्वस्य ब्रह्मा- नन्यत्वेन भोग्यशब्दादेर्भोकात्मकत्व पत्तेमक्ग्यात्मकत्वापत्तेः प्रत्यक्षसिद्धः पर- स्परविभागो न स्याद् । अतः प्रत्यक्षेण समन्वयो विरुध्यत इति चोदति पूर्वः पक्षः । सिद्धान्तस्तु ‘स्याल्लोकवत्’ एकब्रह्मोपादानकत्वेऽपि भोक्तृभोःयप्रपञ्चस्य परस्परं विभागः स्याल्लोकवद्, यथा लोके मृदात्मना भिन्नानां घटानां परस्परं भेदोऽस्ति तद्वत् । अतः कल्पितत्वान्न प्रत्यक्षविरोध इति सिद्धम् ॥ १३ ॥
- ६ आरम्भणाधिकरणम्
पूर्व परिणामवादमालम्ब्यापाततः स्याल्लोकवादिति समाधानमाभिहितम् । अधुना विवर्त्तवादमाश्रित्य परमं समाधानमभिधीयत इत्येकफलत्वसङ्गत्येदमाह -