ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥ फलं तु पूर्ववत् । अद्वैतब्रह्मवादिसमन्वयो भेदग्राहिप्रत्यक्षेण विरुध्यते न वेति सन्देहे विरुध्यत इति पूर्वः पक्षः । सिद्धान्तस्तु तत् तस्मात् कारणाद् ब्रह्मणः कार्य- स्य जगतोऽनन्यत्वं पृथक्सत्ताराहित्यं, कुतः, आरम्भणशब्दादिभ्यः । 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' (छा. ६-१-४) 'ऐतदात्म्यमिदं सर्वे तत् सत्यं स आत्मा' (छा. ६-८-७) 'ब्रह्मैवेदं सर्वम् ' (नृ. ७) इत्यादिशब्देभ्यः ॥ १४ ॥ ब्रह्मव्यतिरेकेण कार्यस्याभावेऽनुमानमाह - भावे चोपलब्धेः ॥ १५ ॥ कारणस्य ब्रह्मणो भावे सत्त्वे कार्यस्योपलब्धेः मृदि सत्यां घटस्येव । न हि मृद्व्यतिरेकेण घटो नाम कश्चिदुपलभ्यते । अतः कारणस्य व्यतिरेकेण कार्ये नास्तीत्यर्थः ॥ १५ ॥ कारणव्यतिरेकेण कार्यस्याभावे श्रुतार्थापत्ति प्रमाणान्तरमाह- सत्त्वाच्चावरस्य ॥ १६ ॥ अवरस्य कार्यस्योत्पत्तेः प्राक् कारणानन्यत्वेन सत्त्वाद् ‘ब्रह्म वा इदमग्र आसीद्' (बृ. १-४-१०) इत्यादौ सत्त्वश्रवणादुत्पत्त्यनन्तरमनन्यत्वं सिद्ध- मित्यर्थः ॥ १६ ॥ मागुत्पत्तेः कारणात्मना कार्यस्य सत्त्वमुक्तमाक्षिप्य समाधत्ते--- असद्व्यपदेशादिति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥ 'असद्वा इदमग्र आसीद्' (तै. २-७-१) इत्यादिना प्रागुत्पत्तेरसत्त्वव्यप- देशान्न कार्यस्य कारणात्मना सत्त्वमिति चेन्न । न ह्यत्यन्तासत्त्वाभिप्रायेणायमसत्त्व- व्यपदेशः, किन्तु व्याकृतत्वरूपधर्मापेक्षया । अव्याकृतत्वं धर्मान्तरम् । तेनायमसत्त्व- व्यपदेशः कुतः, वाक्यशेषात् 'तत् सदासीद्' (छा. ३-१९-१) इति वाक्य- शेषात् । अतः कारणादनन्यत्वं कार्यस्य सिद्धमित्यर्थः ॥ १७ ॥ " किञ्च- युक्तेः शब्दान्तराच्च ॥ १८ ॥ मृदात्मना पूर्व घटस्यासत्त्वे मृदेव घटार्थिना नोपादीयेत असत्त्वाविशेषाद्
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/६४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति