ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां जगतो ब्रह्मविवर्त्तत्वेन स्वप्नप्रपञ्चवन्मायिकत्वात् तदुपाढ़ानत्वेऽपि ब्रह्मणो न कृत्स्नप्रसक्त्यादिदोषः स्वप्नसाक्षिण इवेत्याह- आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥ हि यस्माद्धेतोरेकस्मिन्नात्मनि स्वप्नदृशि निरवयवे विचित्राः स्रष्टयः श्रूय- न्ते–'न तत्र रथा न रथयोगाः' (बृ. ४-३-१०) इत्यादौ । यथा च लोके मायाविनि स्वरूपानुपमर्देनैव हस्त्यश्वादिविचित्राः स्रष्टयो दृश्यन्ते, एवमेकास्मिन्नपि ब्रह्माण विविधसृष्टिरित्यर्थः ॥ २८ ॥ 'यक्षोभयोः समो दोष' इति न्यायेन कृत्प्रसक्त्यादीनामनुद्भाव्यत्वं दर्शयति- स्वपक्षदोषाच्च ॥ २९ ॥ साङ्ख्यादयोऽपि निरवयवं प्रधानं जगत्परिणामीत्यङ्गीचक्रुः । तथा च कृत्स्न- प्रसक्त्यादिदोषः समानः । अणुवादिनोऽपि परमाणुद्वयसंयोगेन द्व्यणुकादिसृष्टिमुर- रीचक्रुः । स संयोगः किं व्याप्यवृत्तिरव्याप्यवृत्तिर्वा । आद्ये दृष्टविरोधः । द्वितीये सावयवत्वं चिनाव्याप्यवृत्तिसंयोगानुपपत्तिर्निरवयवत्वव्याकोप इत्यादिदोषः समा- नः । ब्रह्मवादे स दोषो न समस्ति । तस्मादुपपन्नो ब्रह्मकारणवादः ॥ २९ ॥ विषयिभावसङ्गत्येदमाह- १० सर्वोपताधिकरणम् * पूर्वोक्तविचित्रकार्यशक्तिमत्त्वविषयशङ्कानिरासेन समर्थनात्मकत्वाद् विषय- सर्वोपेता च तद्दर्शनात् ॥ ३० ॥ फलं पूर्ववत् । 'अशरीरम्य न माये'ति न्यायेन मायाशक्तिमतो ब्रह्मणो जग- त्सर्ग ब्रुवन् समन्वयो विरुध्यते न वेति सन्देहे विरुध्यत इति पूर्वः पक्षः । सिद्धा- न्तस्तु सर्वोपता सर्वशक्तियुक्ता परा देवता, कुतः, तद्दर्शनात् तस्य सर्वशक्तियो- गस्य 'सर्वकर्मा सर्वकामः' (छा. ३-१४-४) इत्यादिश्रुतौ दर्शनादित्यर्थः ॥ ३० ॥ पूर्वपक्षमनुभाव्य दूषयति- विकरणत्वान्नेति चेत् तदुक्तम् ॥ ३१ ॥ सर्वशक्तियुक्तानामपि देवादीनां चक्षुरादिकरणवतामेव विचित्रकार्यकर्तृत्व- मवगम्यते बह्मणः 'अचक्षुष्कमश्रोत्रम्' (बृ. ३-८-८) इत्यादिना विकरणत्वावगमान्न कर्तृत्वामति चेद् अत्र यदुत्तरं वक्तव्यं तत् पूर्वमेव 'न विलक्षणत्वाद्' (ब्र. २-१-४:),
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/६८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति