द्वितीयाध्याये प्रथमः पादः । ५५ 'देवादिवदपि लोके' (ब्र. २-१-२५) इत्यादावुक्तम् । अथवा 'अपाणिपादो जवन' (श्वे. ३-१९) इत्यादिश्रुत्योत्तरमुक्तमिति श्रुत्येक समधिगम्यत्वान्न तर्केण विरोध शङ्कावकाश इति ॥ ३१ ॥ ११ प्रयोजनवत्त्वाधिकरणम् * पूर्व श्रुत्वष्टम्न सर्वशक्तिमतो ब्रह्मणः कर्तृत्वमवादि । तदाक्षिप्य समा- धानादाक्षेपसङ्गत्येदमाह -- न प्रयोजनवत्त्वात् ॥ ३२ ॥ फलं पूर्ववत् । ब्रह्म न फलेन विना सृजत्यभ्रान्तचेतनत्वात् सम्मतवादति न्यायेनापास्तसमस्तकामाद् ब्रह्मणो जगत्सर्ग ब्रुवन् समन्वयो विरुध्यते न वेति. सन्देहे पूर्वः पक्षः – न ब्रह्मणो जगत्कर्तृत्वं सम्भवति नित्यतृप्तत्वेन प्रयोजनाभिस- न्धिरहितत्वात् प्रेक्षावत्प्रवृत्तेः प्रयोजनवत्त्वाभ्युपगमात् समन्वयो विरुध्यत इति ॥ सिद्धान्तस्तु - लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥ तुः पूर्वपक्षनिरासार्थः । यथा लोके राजतदमात्यादीनां फलं विनैव केवल- लीलारूपाः प्रवृत्तयो दृश्यन्ते, यथा वोच्छ्वासादयः स्वभावादेवोत्पद्यन्ते, तथा ब्रह्मणो विचित्रकार्यरचना लीलाकैवल्यं केवललीलामात्रं न फलसापेक्षम् | कथञ्चिद्राजादी- नां फलसम्भवेऽपि नित्यतृप्तस्य ब्रह्मणो लीलामात्रमेतदित्यभिप्रायः ।। ३३ ।।
- १२ वैषम्यनैर्घृण्याधिकरणम् *
पूर्व मायामय्या लीलया ब्रह्मणः स्रष्टृत्वमवादि । तदाक्षिप्य समाधानादा- क्षेपसङ्गत्येदमाह - वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ॥ ३४ ॥ फलं पूर्ववत् । यो यो विषमसृष्टिकर्ता स सावद्य इति न्यायेन निरवद्याद् ब्रह्मणो जगत्सँगै ब्रुवन् समन्वयो विरुध्यते न वेति सन्देहे, ब्रह्म किं प्राणिकर्मसा- पेक्षं जगत्कर्तृ, निरपेक्षं वा । आद्ये अनीश्वरत्वप्रसङ्गात् । द्वितीये वैषम्यनैर्घृण्ये प्रस- ज्येयाताम् । कांश्चित्तिर्यगादीनत्यन्तदुःखिन उत्पादयति, कांश्चिन्मनुष्यादीन् सुख- दुःखसाधारणान्,कांश्चिद् देवादीनत्यन्त लुखिन इति वैषम्यम् । सर्वसंहर्तृत्वाच्च नैर्घृ- ण्यम् । ततश्च सावद्यत्वं प्रसज्येत । अतो निरवद्यस्य ब्रह्मणो न जगत्क्रर्तृत्वामति पूर्वः पक्षः। सिद्धान्तस्तु ब्रह्मणो वैषम्यनैर्घृण्ये न स्यातां, कस्मात्, सापेक्षत्वात् प्राणि- कर्मसापेक्षत्वात् । कर्मानपेक्षत्वे हि वैषम्यादिदोषः स्यात् । न च सापेक्षत्वे निरी- श्वरत्वप्रसङ्गः भृत्यादिसेवानुसारेण फलदातू राज्ञो राजत्वदर्शनात् । ननु कस्माद्