ब्रह्मसूत्रवृत्तौ ब्रह्मतत्वप्रकाशिकायां ब्रह्मणः कर्मसापेक्षत्वमत आह तथा हि दर्शयति 'एष ह्येव साधु कर्म कारयति' (कौ. ब्रा. ३-८) इत्याद्या श्रुतिरित्यर्थः ॥ ३४ ॥ सापेक्षत्वमाक्षिप्य समाधत्ते- न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५ ॥ ‘सदेव सोम्येदमग्र आसीदेकमेव' (छा. ६-२-१) इत्यादिना सृष्टेः प्रागवि- भागावधारणान्न तदानीं कर्मास्ति । ततः कर्मापेक्षया विषमा सृष्टिरित्यसङ्गतमिति चेद्, न, अनादित्वात् संसारस्य बीजाङ्कुरवद्धेतुहेतुमद्भावोपपत्तेरित्यर्थः ॥ ३५ ॥ ननु कुतः संसारस्यानादित्वमित्यत आह - उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥ संसारस्यानादित्वमुपपद्यते च । अन्यथाकस्मादेव सृष्ट्यङ्गीकारे मुक्तस्यापि पुनर्जन्मप्रसङ्गात् पूर्वसृष्टिसादृश्यानुपपत्तेश्च । उपलभ्यते च संसारस्यानादित्वं 'धाता यथापूर्वमकल्पयत्' (ऋ. सं. १०-१९०-३) “न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा' (गी. १५-३) इति श्रुतिस्मृत्योरित्यर्थः ॥ ३६ ॥ १३ सर्वधर्मोपपत्त्यधिकरणम्
पूर्व विषमसृष्टिप्रयोजककर्मणः सत्त्वाद् ब्रह्मणो विषमसृष्टिहेतुत्वमुक्तम् । तद्वदुपादानत्वप्रयोजकगुणवत्त्वस्याभावान्नोपादानत्वमिति प्रत्युदाहरणसङ्गत्येदमाह- सर्वधर्मोपपत्तेश्च ॥ ३७ ॥ फलं पूर्ववत् । यन्निर्गुणं तन्नोपादानं यथा गन्ध इति न्यायेन निर्गुणब्रह्मणो जगत्सर्ग ब्रुवन् समन्वयो विरुध्यते न वेति सन्देहे विरुध्यत इति पूर्वः पक्षः । सिद्धान्तस्तु जगत्कारणत्वसर्वज्ञत्वादयः कारणधर्मा ये विद्यन्ते, तेषां सर्वेषां पूर्वोक्त- प्रकारेण ब्रह्मण्येवोपपत्तेर्ब्रह्मैव जगत्कारणमित्यर्थः । अयं भावः - यन्निर्गुणं तन्नोपा- दानमिति व्याप्तौ किं परिणामित्वाभावो व्यापक उत विवर्तोपादानत्वाभावः । नाद्यः, इष्टत्वात् । न द्वितीयः, आरोपितानित्यत्वोपादाने जात्यादौ व्यभिचारात् । अतो निर्गुणत्वेऽपि ब्रह्मणो न विवर्तजगदुपादानत्वं विरुद्धमिति । तस्मान्न कथमपि समन्वयविरोध इति सिद्धम् ॥ ३७ ॥ अस्मिन् पादे त्रयोदशाधिकरणानि । सूत्राणि सप्तत्रिंशत् । इति ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां द्वितीयाध्यायस्य प्रथमः पाद: ।