द्वितीयाध्याये द्वितीयः पादः । मिति न कौटस्थ्यहानिः ॥ ७ ॥ अपि च--- अङ्गित्वानुपपत्तेश्च ॥ ८ ॥ साङ्ख्यमते गुणत्रयसाम्यावस्था प्रकृतिः | सा कूटस्था वा विकारिणी वा । आद्ये परस्परानपेक्षाणां गुणानां साम्यावस्थाप्रच्युत्यभावेनासात्विानुपपत्तेः कार्या- नुदयप्रसङ्गः | द्वितीये स्वतः प्रच्युतिरुतान्यतः | नाद्यः, सदा कार्यप्रसङ्गात् । न द्वितीयः, पुरुषस्यौदासीन्याभ्युपगमाः । अतः प्रच्युत्यभावेनाङ्गाङ्गिभावानुप- पत्तेः कार्याभावप्रसङ्ग इत्यर्थः ॥ ८ ॥ गुणानामनपेक्षस्वभावत्वान्न प्रच्युतिरित्यत्रासिद्धिमाशङ्कय परिहरति - अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९ ॥ न वयमनपेक्षस्वभावान् कूटस्थान् गुणाननुमिमीमहे, अपि त्वन्यथा प्रका- रान्तरेण गुणानन्योन्यसापेक्षान् । एवमनुनितौ न प्रागुक्तदोषप्रसक्तिरिति चेन्न, ज्ञश- क्तिवियोगाद् गुणानां ज्ञानशक्तिरहितत्वादित्यर्थः । स्वतः प्रच्युत्यभावेनाङ्गाङ्गित्वा- नुपपत्तेः कार्यानुदयप्रसङ्गस्तद्वस्थ एवेति भावः ॥ ९ ॥ इतश्चासङ्गतं साङ्ख्यमतमित्याह- विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥ साङ्ख्या हि क्वचिन्महतः पञ्चतन्मात्रस सङ्गिरन्ते क्वचिदहङ्कारात्, कचिद् दशेन्द्रियाणि कचिद्वान्द्रियाणि त्यागेन्द्रियेऽन्तर्भाव्य सतेन्द्रियाणीति । एवञ्च परस्परविप्रतिषेधादसमञ्जसं साङ्ख्यमतम् । तस्मात् साङ्ख्यसिद्धान्तो भ्रा- न्तिमूल एवेति सिद्धम् ॥ १० ॥
- २ महद्दीर्घाधिकरणम् *
पूर्व प्रपञ्चस्य प्रधाननिष्ठाशब्दत्वादिगुणानन्वयात् प्रधानोपादानकत्ववद् ब्रह्मगुणचेतनत्वानन्वयाद् ब्रह्मोपादानकत्वं न स्यादिति दृष्टान्तसङ्गत्येदभाह- महद्दीर्घवहा हूस्वपरिमण्डलाभ्याम् ॥ ११ ॥ स्वपक्षदोषनिरासस्य स्मृतिपादसम्बन्धेऽयुक्तावान्तरसङ्गतिलाभादिहेदम- धिकरणं लिखितमिति बोध्यम् । फलं पूर्ववत् । चेतनाद् ब्रह्मणो जगत्सर्ग ब्रुवन्