द्वितीयाध्याये द्वितीयः पादः । नन्वर्थानामभावेऽपि वासनाभिस्तद्वैचित्र्यं स्यादित्यत आह- न भावोऽनुपलब्धेः ॥ ३० ॥ वासनानां न भावो न सद्भावः । कस्मात्, अनुपलब्धेः त्वत्पक्षे बाह्यार्था- नामनुपलब्धेरित्यर्थः । बाह्यार्थानुभवस्य वासनां प्रति कारणत्वात् कारणाभावे कार्याभावः । किञ्च त्वत्पक्षे वासनानां संस्काराभिधानानामाश्रयासम्भवादनुपपत्ति- रिति भावः ॥ ३० ॥ नन्वहमित्यालयप्रत्यय एवाश्रय इत्यत आह - क्षणिकत्वाच ॥ ३१ ॥ आलयविज्ञानस्य क्षणिकत्वाङ्गीकारान्नाश्रयत्वमित्यर्थः ॥ ३१ ॥ अधिकरणद्वयार्थमुपसंहरति-- सर्वथानुपपत्तेश्च ॥ ३२ ॥ ‘पश्यनातिष्ठने’त्याद्यपशब्दप्रयोगाद् ग्रन्थतोऽनुपपन्नमिदं मतमुक्तक्रमेणार्थ- तोऽनुपपन्नमेवेति सर्वथानुपपत्तेर्नादरणीयं श्रेयोर्थिभिर्भ्रान्तिमूलं सौगतमतमिति सिद्धम् । सर्वशून्यवाढिनिरासपरत्वेनाप्येतानि 'नाभाव उपलब्धेः' (२-२-२८) इत्यादिसूत्राणि योजयितव्यानि ॥ ३२ ॥
- ६ एकस्मिन्नसम्भवाधिकरणम्
एवं मुक्तकच्छानां बौद्धानां मते निरस्ते मुक्ताम्बराणां मतं बुद्धिस्थम् । एवं च बुद्धिसन्निधिलक्षणसङ्गत्येदमाह - नैकस्मिन्नसम्भवात् ॥ ३३ ॥ फलं पूर्ववत् । दिगम्बरमतं प्रमाणमूलं भ्रान्तिमूलं वेति सन्देहे स्यादस्ति, स्यान्नास्तीत्यादिसप्तभङ्गीनयादस्तित्व नास्तित्वादिविरुद्धधर्मद्वयमादाय सर्वेषु पदा- र्थेषु योजयन्तो दिगम्बराः पदार्थमात्रस्यानेकरूपत्वमाचक्षत इति तन्मतं प्रमाणम्- लमिति पूर्वः पक्षः । सिद्धान्तस्तु नैकस्मिन्नसम्भवाद्, एकस्मिन् परमार्थरूपे वस्तु- नि विरुद्धधर्माणामसम्भवाद् वस्तुनोऽनेकरूपत्वं नास्तीत्यर्थः । यदस्ति तदस्त्येव न नास्ति । यन्नित्यं तन्नित्यमेव नानित्यं यथा प्रत्यगात्मा वस्तुभूतः । एवं प्रपञ्च- स्यापि त्वन्मते वस्तुभूतत्वान्नानेकरूपत्वसम्भवः । अस्मन्मते तु प्रपञ्चो न सन्नासन