ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां कि त्वनिर्वचनीय एवेति सर्वव्यवहारसम्भवः ॥ ३३ ॥ दिगम्बराणां देहपरिणाम एवात्मेति यन्मतं तद् दूषयति- एवञ्चात्माकार्त्यम् ॥ ३४ ॥ यथैकत्र विरुद्धधर्मासम्भवो दोषः स्याद्वादे प्रसक्तः, एवमात्मनो जीवस्या- कात्यै परिच्छिन्नत्वमपरो दोषः स्यादित्यर्थः । तथा च परिच्छिन्नत्वादात्मनो भटादिवदनित्यत्वं स्यात् । देहपरिमाणत्वे मनुष्यात्मनः कर्मवशाद् गजशरीरे कृत्स्त्रे कृत्स्नस्यात्मनः पुत्तिकाशरीरे वा प्रवेशो न स्यादिति भावः ॥ ३४ ॥ नन्वात्मनः सावयवत्वाङ्गीकारात् क्रमेण प्रवेशोऽस्त्वित्याशङ्कयाह- न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥ पर्यायेणाप्यवयवगमनागमनाभ्यां तत्तत्स्थूलसूक्ष्मशरीरपरिमाणत्वस्यात्मन्य- विरोध इति न च । कुतः, विकारादिभ्यः, आत्मनः सावयवत्वेन तत्तच्छरीरप्रा- प्त्या वृद्धिहासाङ्गीकारे विकारित्यप्रसक्त्यानित्यत्वे बन्धमोक्षाभ्युपगमो बाध्येते- त्यर्थः ॥ ३५ ॥ किञ्च - - अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ ३६ ॥ अन्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वेनावस्थितस्तत्पूर्वयोरु- भयोरप्याद्य मध्यमपरिमाणयोर्नित्यत्वप्रसङ्गात् त्रयाणामाद्यमध्यमान्त्यपरिमाणानाम- विशेषः साम्यं स्याद् । अतः सौगतमतवदार्हतमतमप्यप्रामाणिकमिति सिद्धम् ॥ ३६॥
- ७ पाशुपताधिकरणम्
पूर्व सत्त्वासत्त्वयोरेकत्र विरोधादसम्भव इत्युक्तम् । तर्हि तद्वदुपादानत्वं- कर्तृत्वयोरेकत्र विरोधादसम्भव इति दृष्टान्तसङ्गत्येदमाह- पत्युरसामञ्जस्यात् ।। ३७ ॥ फलं पूर्ववत् । केवलमधिष्ठातेश्वरो जगतो नोपादानमिति माहेश्वरराद्धा- न्तोऽन्त्र विषयः । स किं प्रमाणमूलो भ्रान्तिमूलो वेति सन्देहे प्रमाणमूल इति पूर्वः पक्षः । सिद्धान्तस्तु पत्युरीश्वरस्य जगदुपादानप्रधानादिप्रेरकत्वेन जगन्निमि तत्वमात्रं न सम्भवति, कुतः, असामञ्जस्यात् । ईश्वरस्य जगत्सर्जने प्रवृत्तौ रागा- 2