६८ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां श्वर इति भागवतमतस्य वेदसङ्गतत्वाज्जीवोत्पत्त्यंशे प्रमाणमूलत्वं स्यादिति प्रत्यु- दाहरणसङ्गत्येदमाह - उत्पत्त्यसम्भवात् ॥ ४२ ॥ फलं पूर्ववत् । वासुदेवः खलु परमात्मा जगदुपादानं निमित्तं च । त- स्मात् सङ्कर्षणाख्यो जीव उदेति । तस्मात् प्रद्युम्नाख्यं मनो जायते । तस्मादनि- रुद्धाख्योऽहङ्कारो जायत इति भागवतराद्धान्तोऽत्र विषयः । स किं प्रमाणमूलो भ्रान्तिमूलो वेति सन्देहे प्रमाणमूल इति पूर्व: पक्षः । सिद्धान्तस्तु भवतु वेदावि - रुद्धांशे प्रमाणमूलत्वं न तद्वेदविरुद्धजीवोत्पत्त्यंशे, कुतः, वासुदेवाज्जीवस्योत्पत्तेर- सम्भवात् । यद्युत्पत्तिरङ्गीक्रियेत तर्हि घटवदनित्यत्वा पत्त्या भगवत्प्राप्तिरूपो मोक्ष- स्त्वदभ्युपगतः कस्य स्यात् । अतो भ्रान्तिमूलो भागवतसिद्धान्तः ॥ ४२ ॥ इत्थं जीवजन्म निरस्य ततो मनोजन्म निरस्यति- न च कर्तुः करणम् ॥ ४३ ॥ • कर्त्तुर्देवदत्तादेः सकाशात् करणस्य कुठारादेरुत्पत्त्यदर्शनाज्जीवात् कर्तुः करणं मनो जन्यत इत्येतन्न सङ्गतमित्यर्थः ॥ ४३ ॥ ननु वासुदेवान्न सङ्कर्षणस्य जन्म न सङ्कर्षणात् प्रद्युम्नस्य न प्रद्युम्नादनिरु- द्धस्येत्यत्रे (ष्ट ?) (ष्टि)माशङ्कयाह -- विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥ सङ्कर्षणादीनां त्रयाणां वासुदेववद्विज्ञानादिभावे वा विज्ञानैश्वर्यबलवन्त्रि- र्दोषनिरवद्यस्वरूपत्वेऽपि तदप्रतिषेधस्तस्योत्पत्त्यसम्भवरूपदोषस्य प्रकारान्तरेणा- प्रतिषेध इत्यर्थः । किं वासुदेवादयश्चत्वारोऽपीश्वरा उत सङ्कर्षणादयस्त्रयो वासुदेव- तुल्याः । आद्ये भगवानेक एव वासुदेव इति स्वसिद्धान्तहानिः । द्वितीय उत्पत्त्य- सम्भवदोषस्तदवस्थ एवेति भावः ॥ ४४ ॥ अपि च-- विप्रतिषेधाच ॥ ४५ ॥ क्वचिज्ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि बासुदेवस्य गुणा इति कचिच्चोक्त- गुणा एव वासुदेवा इति गुणगुणिनोर्भेदमभेदं च वर्णयन्ति । तथा च परस्परं विप्रतिषेधादप्रामाणिकमिदं भागवतमतमित्यर्थः । तस्मादेवं साङ्यवैशेषिकसौग-
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/८२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति