द्वितीयाध्याये तृतीयः पादः । तार्हतमाहेश्वरभागवतमतानां भ्रान्तिमूलत्वेन न तैर्मतैर्निरवद्याद् ब्रह्मणो जगत्सर्ग ब्रुवन् समन्वयो विरुध्यत इति सिद्धम् ॥ ४५ ॥ यत्साक्षात्कृतये सर्ववेदान्तानां समन्वये । परास्तः परराद्धान्तविरोधस्तदहं परम् ॥ अस्मिन् पादे सूत्राणि पञ्चचत्वारिंशत् । अष्टावधिकरणानि । इति ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां द्वितीयाध्यायस्य द्वितीय: पाद: । अथ तृतीयः पादः |
- १ वियदधिकरणम्
पूर्वस्मिन् पादे श्रुतिविरुद्धत्वात् परपक्षाणामनपेक्षत्वमभाणि । तर्हि श्रुतीना- मन्योन्यविरुद्धत्वाद्ब्रह्मकारणवादस्याप्यनपेक्षत्वं स्यादिति शङ्कानिरासार्थं परं पादद्वय- मारभ्यते । एवञ्च पूर्वपादेनास्य पादद्वयस्य दृष्टान्तसङ्गतिः शङ्काव्याजेन दर्शिता । तत्वात् पूर्वाधिकास्याधिकरणस्य न सङ्गत्यपेक्षा । न वियदश्रुतेः ॥ १ ॥ अत्र पूर्वपक्षे श्रुतीनां मिथो विरोधादप्रामाण्यं, सिद्धान्ते विरोधाभावात् प्रामाण्यामिति फलभेदः । एवं सर्वेषु चाधिकरणेषु पादद्वयगतेषु पूर्वोत्तरपक्षयोः फलं द्रष्टव्यम् । अत्रादौ सृष्टिवाक्यानामविरोधं प्रतिपादयितुमाकाशमाश्रित्य वि- चार्यते । किमाकाशस्योत्पत्तिरस्ति उत नेति सन्देहे यद्यस्ति तर्हि च्छान्दोग्य आका- शवायू विना 'तत् तेजोऽसृजत' (६-२-२) इति तेजआदिका सृष्टिः श्रूयते । तैत्ति- रीयके (२-१) तु 'आत्मन आकाशः सम्भूत' इत्याकाशादिका । तथा चानयो- र्वाक्ययोर्विरोध इति पूर्वः पक्षः । सिद्धान्तस्त्वेकदेशिमतेन न वियदाकाश उत्पद्यते, कस्माङ्, अश्रुतेः आकाशस्योत्पत्तिप्रतिपादकवाक्यस्याश्रवणात् ॥ १ ॥ यद्यपि 'आत्मन आकाशः सम्भूत' इति श्रुतिरस्ति, तथापि सा गौणीति गूढोऽभिसन्धिः। ततश्चाकाशस्योत्पत्तेरनभ्युपगमादेव न विरोध इति गूढाभिस- •न्धिमजानानः शङ्कते- अस्ति तु ॥ २ ॥