ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां तुशब्द: पक्षान्तरपरिग्रहे । छान्दोग्य आकाशोत्पत्तिश्रुत्यभावेऽपि सा श्रुति- स्तैत्तिरीयकेऽस्तीत्यर्थः । तथा च विरोधस्तदवस्थ इति शङ्कितुराशयः ॥ २ ॥ एकदेशी स्वाभिप्रायं प्रकटयति - गौण्यसम्भवात् ॥ ३॥ नयाकाशस्योत्पत्तिश्रुतिर्मुख्या किन्तु गौणी, कुतः, असम्भवात् । आका- शोत्पत्तौ समवायिकारणादिसामग्यभावाद्विभुत्वेन नित्यत्वानुमानाच्चाकाशोत्पत्तेरस- म्भवादित्यर्थः ॥ ३ ॥ किञ्च - ७० शब्दाच ॥ ४ ॥ 'वायुश्चान्तरिक्षं चैतदमृतम्' (बृ. २-३-३) इत्याकाशेऽमृतशब्ददर्शनाना- काशस्योत्पत्तिरित्यर्थः ॥ ४ ॥ नन्वेकस्मिन् वाक्य एकस्य सम्भूतशब्दस्य गौणत्वं मुख्यत्वं च विरुद्ध- मित्यत आह - स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥ यथैकस्मिन्नेव प्रकरणे विषयभेदाद् 'अन्नं ब्रह्म' (तै ३-२) इत्यत्र ब्रह्म- शब्दो गौणः ‘आनन्दो ब्रह्म' (तै. ३-६) इत्यत्र मुख्यः तथा प्रकृतेऽपि विषय- भेदादेकस्य गौणत्वं मुख्यत्वं च स्यादित्यर्थः ॥ ५ ॥ इदमेकदेशिमतं दूषयन् सिद्धान्तयति-- प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥ ६ ॥ • औपनिषदाद् ब्रह्मणः सर्वस्य वस्तुजातस्याव्यतिरेकादेकाविज्ञानात् सर्ववि ज्ञानप्रतिज्ञाया अहानिर्भवति । यद्याकाशस्योत्पत्तिर्न स्यात् तर्हि सा प्रतिज्ञा हीयेत । अतस्तत्सिद्धय आकाशस्योत्पत्तिरङ्गीकर्तव्या । किञ्च शब्देभ्य: 'सदेव सोम्येदमग्र आसीत् ' (छा. ६-२-१) 'ऐतदात्म्यमिदं सर्वम्' (छा. ६-८-७) इत्यादिशब्देभ्यः कार्यकारणाभेदपरेभ्यः प्रतिज्ञासिद्धिरवगम्यते । न चैवमाकाशस्योत्पत्तौ पूर्वोक्त- विरोधस्तदवस्थ एवेति वाच्यम् । छान्दोग्यश्रुतिस्तैत्तिरीय श्रुत्यनुसारेणाकाशं वायुं च सृष्ट्वा 'तत् तेजोऽसृजत' (६-२-३) इति विपरिणम्यत इति नानयोर्वाक्ययोर्विरोध
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/८४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति