ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां
- ४ तेजोऽधिकरणम्
पूर्वत्र सामान्यात् सामान्यस्योत्पत्तिर्मा भूत् । इह सामान्याद ब्रह्मणो विशेषस्य तेजस उत्पत्तिरस्त्विति प्रत्युदाहरण सङ्गत्येदमाह - ७२ तेजोऽतस्तथा ह्याह ॥ १० ॥ 'बायोरभिः' (तै. २. १. १) इति तेजसो वायुजन्यत्वप्रतिपादकतैत्तिरी- यकश्रुतेः 'तत् तेजोऽसृजत' (छा. ६. २. ३.) इति तेजसो ब्रह्मजन्यत्वप्रतिपा- दकच्छान्दोग्यश्रुत्या विरोधोऽस्ति न वेति सन्देहे विरोधोऽस्तीति पूर्वः पक्षः । वा- योरपि ब्रह्मकार्यत्वेन तेजः प्रत्युपादानत्वासम्भवाद् ब्रह्ममात्रजन्यत्वं तेजस इत्यवि- रोध इत्येकदेशिसिद्धान्तः । परमसिद्धान्तस्तु तेजोऽतोऽस्माद्वायोर्जायते । हि यत- स्तथा वायुजन्यत्वं 'बायोरग्निः' इति श्रुतिराह । नच तर्खेतस्यच्छान्दोग्यश्रुत्या विरोधस्तदवस्थ इति वाच्यं, वायोर्ब्रह्मजन्यत्वेन वायुभावापन्नब्रह्मजन्यत्वस्यच्छा- न्दोग्यश्रुत्यर्थस्यैव ‘वायोरग्निरि'ति श्रुतेरप्यर्थत्वेनैकार्थ्यादविरोध इति ॥ १० ॥
- ५ अबधिकरणम् *
पूर्व तेजसो वायुजन्यत्वं कथितम् । अथाप्प्रथिव्योः क्रमेण बुद्धिस्थत्वाद् बुद्धिसन्निधिलक्षणसङ्गत्या तावदधिकरणद्वयमाह- आपः ॥ ११ ॥ अतस्तथा ह्याहेत्यनुवर्तते 'अग्नेराप:' (तै. २-१-१) इति श्रुतेः 'तदपोऽसु- जत' (छा. ६. २. ३) इत्यपां ब्रह्मजन्यत्वश्रुत्या विरोधोऽस्ति न वेति सन्देहे विरोधोऽस्तीति पूर्वः पक्षः । अपामग्निदाह्मत्वान्न तज्जन्यत्वमित्यविरोध इत्येकदेशि- सिद्धान्तः । परमसिद्धान्तस्त्वापोऽतस्तेजसो जायन्ते, हि यस्मात् तथा तेजोजन्य- स्त्वम् 'अग्नेराप' इति श्रुतिराह । नहि त्रिवृत्कृतयोरिवात्रिवृत्कृयोरप्तेजसोर्दाशदाहक- भावः सम्भवति विरोधाभावात् । अतः पूर्ववत् तेजोभावापन्नब्रह्मजन्यत्वेनानयोरै- कार्थ्यान्न विरोध इति ॥ ११ ॥
- ६ पृथिव्यधिकाराधिकरणम् *
पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥ 'अभ्यः पृथिवी' (तै. २. १. १) इति पृथिव्या अब्जन्यत्वश्रुतेः 'ता अन्नमसृजन्त' (छा. ६. २. ४) इत्यन्नस्याजन्यत्वश्रुत्या विरोधोऽस्ति न वेति स