द्वितीयाध्याये तृतीयः पादः । न्देहेऽन्नशब्दस्यौदनादौ प्रसिद्धत्वेन पृथिवीवाचकत्वाभावाद्विरोधोऽस्तीति पूर्वः पक्षः । सिद्धान्तस्तु पृथिव्येवात्रान्नशब्देनोच्यते नौदनादि, कुतः, अधिकाररूपश- ब्दान्तरेभ्यः ‘तत् तेजोऽसृजत' (छा. ६. २. ३) इति महाभूतोत्पत्त्यधिकाराद् ‘यत् कृष्णं तदन्नस्य' (छा. ६. ४. १) इति पृथिवीत्वज्ञापककृष्णरूपस्य श्रव- णाद् ‘अञ्यः पृथ्विी’ति पृथिव्या एव तज्जन्यत्वप्रतिपादकशब्दान्तरस्य सत्वाच्च । अतोऽनयोरैकार्थ्येनैकवाक्यत्वादविरोध इति सिद्धम् ॥ १२ ॥
- ७ तदभिध्यानाधिकरणम् *
इत्थमुत्पत्तिक्रमेण महाभूतश्रुतीनामविरोधः प्रत्यपादि । अधुना तानि भूता- न्याश्रित्यान्यद्विचार्यत इत्याश्रयाश्रयिभावसङ्गत्येदमाह - तदभिध्यानादेव तु तल्लिङ्गात् सः ॥ १३ ॥ अत्र ब्रह्मणः सर्वसृष्टिकर्तृत्वप्रतिपादक श्रुतेर्भूतानां भौतिकस्रष्टृत्वप्रतिपादक- श्रुत्या विरोधोऽस्ति न वेति सन्देहे 'आकाशाद्वायुः' (तै, २-१) इत्यादिना भूतानां स्वस्वकार्योत्पत्तौ स्वातन्त्र्यश्रवणात् तत्प्रतिपादकश्रुत्या विरोधोऽस्तीति पूर्वः पक्षः । सिद्धान्तस्तु स एव परमेश्वरस्तत्तत्कार्यगोचरेक्षणात्मकाभिध्यानादेवेक्षितभूताधिष्ठा- ता संस्तत्तत्कार्यं सृजति, कस्मात्, तल्लिङ्गात् तस्य परमात्मनः सर्वनियन्तृत्वरूप- लिङ्गस्य 'यः पृश्रिव्यां तिष्ठन्' (बृ. ३-७-३) इत्यादिना श्रुतत्वात् । अतो भूतानां परमेश्वराधिष्ठितानामेव स्रष्टृत्वप्रतिपादकत्वेनानयोरेकवाक्यत्वदविरोध इति ।। १३ ।।
- ८ विपर्ययाधिकरणम् *
इत्थं भूतानामुत्पत्तिक्रमे चिन्तिते लयक्रमो बुद्धिस्थः । सोऽत्र प्रसङ्गाद्वि- चार्यत इति प्रसङ्गसङ्गत्येदमाह - विपर्ययेण तु कमोऽत उपपद्यते च ॥ १४ ॥ अस्य प्रासङ्गिकविचारस्याद्वैतब्रह्मध्यानं फलम् । अत्र किं भूतानां श्रुतो- त्पत्तिक्रमेणैव लयक्रम उत सोपानपरम्परारूढस्य व्युत्क्रमेणावरोहणवद् व्युत्क्रमे - णैव लयक्रम इति सन्देहे कल्प्यापेक्षया क्लप्तस्य लघुत्वाच्छुतोत्पत्तिक्रमेणैवेति पूर्वः पक्षः । सिद्धान्तस्तु अत उत्पत्तिक्रमाद् विपरीतक्रमेणैव लयक्रमः, स्वकारणे कार्याणां लयदर्शनात् । उपपद्यते च व्युत्क्रमेणैव लयक्रमः | इतरथा सति कार्ये का- रणस्य नाशः स्यात् । तच्चानिष्टमित्यर्थः ॥ १४ ॥ १. 'त्वेनावि' इति खपुस्तके पाठः,