द्वितयाध्याये तृतीयः पादः । मरणव्यपदेशस्य तद्भावभावित्वाद् देहोत्पत्तिनाशान्वयव्यतिरेकानुविधायित्वादित्य- र्थः । देहप्रादुर्भावाद्यपेक्षयैव जातकर्मादिविधानमिति न तेन शास्त्रेण जीवनित्य- त्वशास्त्रस्य विरोध इति भावः ॥ १६ ॥
- ११ आत्माधिकरणम्
इत्थं देहोत्पत्तिनाशयोः सतोर्जीवस्य जन्मनाशौ मा भूताम् । कल्पाद्य- न्तयोजींवस्य जन्ममैरणे किं न स्यातामिति प्रत्युदाहरणसङ्गत्येदमाह- नात्माश्रुतेनित्यत्वाच्च ताभ्यः ॥ १७ ॥ अत्राविकृतस्यैव ब्रह्मणो जीवभावेन प्रवेशवाक्यस्य जीवस्य परस्मादात्म- नः ‘सर्व एत आत्मानो व्युच्चरन्ति' इत्युत्पत्तिवादिवाक्येन विरोधोऽस्ति न वेति सन्देहेऽस्तीति पूर्वः पक्षः । सिद्धान्तस्तु आत्मा जीवो नोत्पद्यते, कुतः, अश्रुतेः उत्पत्तिप्रकरणेषु जीवोत्पत्तेर श्रुतः, ताभ्यः ‘स वा एष महानज आत्मा' (बृ. ४- ४-२५) ‘अजो नित्य' (कठ. २-१८) इत्यादिश्रुतिभ्यो जीवस्य नित्यत्वावग- माञ्चेत्यर्थः । औपाधिकजन्मालम्बनं जीवजनिवाक्यमिति न तेन प्रवेशवाक्यस्य विरोध इति भावः ॥ १७ ॥
- १२ ज्ञाधिकरणम् *
पूर्वसिद्धजीवानुत्पत्तिमुपजीव्योत्तरसिद्धान्तोत्थानाद्धेतुहेतुमद्भावसङ्गत्येदमाह- ज्ञोऽत एव ॥ १८ ॥ अत्र ‘आत्मैवास्य ज्योतिः' (वृ. ४-३-६) इत्यादिस्वयञ्ज्योतिष्ट्वश्रुतेः 'पश्यंश्चक्षुः' (बृ. १-४-७) इत्यागन्तुकज्ञानवत्त्वश्रुत्या विरोधोऽस्ति न वेति सन्देहे अस्तीति पूर्वः पक्षः । सिद्धान्तस्तु जीवो ज्ञः स्वयञ्ज्योतिःस्वरूपः, कुतः, अत एवानुत्पत्तिमत्त्वादेवेत्यर्थः । 'पश्यंश्चक्षुरि 'त्याद्या श्रुतिरागन्तुकवृत्त्यभिप्रायेति न तया स्वयंज्योतिष्ट्र्श्रुतेर्विरोध इति भावः ॥ १८ ॥
- १३ उत्क्रान्त्यधिकरणम्
इत्थं जीवस्य ब्रह्माभेदयोग्यत्वाय नित्यत्वं स्वप्रकाशत्वं चाभिधायाधुना स्वप्रकाशत्वादिवद् बहिष्ठमपरिच्छिन्नत्वमणुत्वनिरासेन साधयतीत्यान्तरबहिर्भाव- सङ्गत्येदमाह - उत्क्रान्तिगत्या गतीनाम् ॥ १९ ॥ १. 'नाशौ' इति खपुस्तके पाठः,