ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां अत्र 'सर्वव्यापी' (वे. ६-११) इति सर्वगतत्वश्रुतेः 'एषोऽणुरात्मा' (मु. ३. १. ९) इत्यणुत्वश्रुत्या विरोधोऽस्ति न वेति सन्देहे अस्तीति पूर्वः पक्षः । कस्माद्, जीवस्य 'अस्माच्छरीरादुत्क्रामति' (कौ ३. ३) 'चन्द्रमसमेव ते सर्वे गच्छन्ति' (कौ. १.२) तस्माल्लोकात् पुनरैति' (बृ. ४. ४. ६) इत्युत्क्रा- न्तिगत्यागतीनां श्रवणादणुर्जीव: । अतोऽस्ति विरोध इत्यर्थः ॥ १९ ॥ अपि च - स्वात्मना चोत्तरयोः ॥ २० ॥ यद्यप्युत्क्रान्तिर्देहस्वाम्यनिवृत्तिरूपा विभुत्वे सम्भवति तथाप्युत्तरयोर्गत्या- गत्योः स्वात्मना जीवात्मना सम्बन्धात् ते आत्मनोऽणुत्वे सम्भवत इत्यर्थः ॥२०॥ तहिं सर्वगतत्वश्रुतिविरोध इत्याशङ्कच समाधत्ते - - नाणुरतच्छ्रतेरिति चेन्नेतराधिकारात् ॥ २१॥ नायं जीवोऽणुः अतच्छूते: अनणुत्वश्रुतेः 'सर्वव्यापी (श्वे. ६. ११) इत्यादिना सर्वगतत्वश्रुतेरिति चेन्न, इतराधिकाराद् इतरस्य ब्रह्मणः सर्वेषु वेदा- न्तेषु प्रधानतया ज्ञेयत्वेन प्रकृतत्वात् तस्यैव सर्वगतत्वश्रुतिर्न जीवस्येत्यर्थः ॥२१॥ जीवस्य त्वणुत्वश्रुतिरस्तीत्याह - - स्वशब्दोन्मानाभ्यां च ॥ २२ ॥ 'एषोऽणुरात्मा' (मु. ३.१.९) इति स्वस्याणुत्वस्य वाचक एतच्छन्दः । ‘वालाग्रशतभागस्य' (श्वे. ५. ९) इत्युन्मानमुद्धृत्य सर्वेभ्यः स्थूलपरिमाणेभ्यो मानमुन्मानम् अत्यन्तापकृष्टपरिमाणामति यावत् । ताभ्यां जीवोऽणुरेवेत्यर्थः ॥ नन्वात्मनोऽणुत्वे जाह्नवीतोयनिममस्य देहव्यापिशैत्योपलब्धिविरोध इत्य- त आह अविरोधश्चन्दनवत् ॥ २३ ॥ यथा चन्दनविन्दुः शरीरैकदेशस्थः शरीरव्यापि सुखं जनयति, तथा जीवोऽपि देहव्यापिनं शैत्यापलम्भं करिष्यतीत्यविरोध इत्यर्थः ॥ २३ ॥ दृष्टान्तदान्तिकयोर्वेषम्यमाशङ्कच परिहरति - अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाहृदि हि ॥ २४ ॥
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/९०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति