पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्याये तृतीयः पादः । नात्र चन्दनदृष्टान्तः अवस्थितिवैशेष्यात् प्रत्यक्षेण चन्दनबिन्दोरेकदेशे- ऽवस्थितिर्ज्ञायते जीवस्य तु नैवमित्यतुल्यत्वादिति चेन्न, कुतः, अभ्युपगमाज्जीवा- णुत्वस्य । तत् कस्माद् हृदि हि, यस्मादल्पपरिमाणे हृदि जीवः पठ्यते 'हृद्य- न्तर्ज्योतिः' (बृ. ४-३-७) इत्यादौ तस्माज्जीवस्याणुत्वमभ्युपगम्यत इति न दृष्टान्ते वैषम्यमित्यर्थः ॥ २४ ॥ , ७७ ननु सावयवतया चन्दनबिन्दोः सर्वशरीरव्यापित्वम् । न तथा जीव- स्याणोः सावयवत्वं, येन शरीरव्यापित्वं स्यादित्यपरितुष्ट्या पक्षान्तरमाह- गुणाद्वा लोकवत् ॥ २५ ॥ आत्मनोऽणुत्वेऽपि तन्निष्ठज्ञानगुणस्य व्यापकत्वाङ्गीकाराद् व्यापकगुणा- द्व्यापि कार्ये भविष्यति लोकवद्, यथा लोके गृहनिष्ठप्रदीपस्याल्पत्वेऽपि प्रभात्मक- (गुण) वशाद् गृहव्यापि प्रकाशादि कार्य सम्भवति, तद्वदित्यर्थः ॥ २५ ॥ ननु गुणिव्यतिरेकेण गुणस्य वृत्तेरन्यत्रादर्शनात् तत् कथमित्याशङ्कयाह- व्यतिरेको गन्धवत् ॥ २६ ॥ यथा गुणस्यापि सतो गन्धस्य गुणिव्यतिरेकेण वृत्तिः पुष्पवाटिकापरिसरे पर्यटतः पुंसो गन्धोपलम्भदर्शनात्, तद्वद् गुणिव्यतिरेको ज्ञानस्येत्यर्थः ॥ २६ ॥ अधुना ज्ञानेनैवात्मनो देहव्याप्तिरित्यत्र श्रुतिमाह - तथा च दर्शयति ॥ २७ ॥ हृदयायतनत्वमणुपरिमाणत्वं चात्मनोऽभिधाय तस्यैव 'आ लोमभ्य आ न- खाग्रेभ्यः' (छा. ८.८.१) इति श्रुतिर्ज्ञानेन समस्तशरीरव्यापित्वं दर्शयतीत्यर्थः || तत्रैव हेत्वन्तरमाह - पृथगुपदेशात् ॥ २८ ॥ 'प्रज्ञया शरीरं समारुह्य' (कौ. ३.६) इत्यात्मज्ञानयोः कर्तृकरणभावेन पृथगुपदेशाद् गुणद्वारास्य शरीरव्यापित्वं गम्यते । तथा च व्यापकं ज्ञानं जीव- स्त्वणुरित्यणुत्वश्रुत्या सर्वगतत्वश्रुतेर्विरोध इति पूर्वः पक्षः ॥ २८ ॥ सिद्धान्तस्तु - तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥