द्वितीयाध्याये तृतीयः पादः । स्वभावतोऽकर्ता परमानन्दघन एव भवति । विधिशास्त्रं तु कर्तृत्वं विनानुपपन्नं तत् साधयति न तु तस्य स्वाभाविकत्वमपीति न तेन सिद्धम् ॥ ४० ॥ दमाहू- -
- १६ परायत्ताधिकरणम्
औपाधिकं कर्तृत्वमुपजीव्य तदीश्वरायत्तमिति साधयितुं पूर्वोक्तसङ्गत्यैवे- परात्तु तच्छ्रुतेः ॥ ४१ ॥ अत्र च 'एष ह्येव साधु कर्म कारयति' (कौ. ३-८) इत्यादिश्रुतेर्विध्यादि- शास्त्रेण विरोधोऽस्ति न वेति सन्देहे रागद्वेषादिवशात् स्वत एवात्मनः कर्तृत्वस- म्भवात् तत्प्रतिपादकविध्यादिशास्त्रेण विरोधोऽस्तीति पूर्व: पक्षः । सिद्धान्तस्तु सौत्रतुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । न स्वतो जीवस्य कर्तृत्वादिसिद्धिः किन्तु परात् परस्मादीश्वरात् कर्माध्यक्षादविद्यातिमिरान्धस्य कर्तृत्वादिसंसारसिद्धिः, तदनुग्रहे तु विज्ञानेन मोक्षसिद्धिर्भविष्यति । कुतः, तच्छ्रुतेः 'एष ह्येव साधु कर्म कारयती’- त्यादिकायाः श्रुतेस्तस्येश्वरस्य हेतुकर्तृत्वमवसीयत इत्यर्थः ॥ ४१ ॥ नन्वीश्वरस्य कारयितृत्वे वैषम्यनैर्घृण्ये स्यातामित्यत आह- कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धा वैयर्थ्यादिभ्यः ॥ ४२ ॥ तुरुक्तशङ्कानिरासार्थः । जीवेन कृतो यः प्रयत्नो धर्माधर्मलक्षणस्तदपेक्ष एवेश्वरोऽन्यस्मिन्नपि जन्मनि धर्मादिकं कारयति तदपेक्षश्च सुखादि फलं प्रयच्छ- तीति न वैषम्यनैर्घृण्ये प्रसज्येते । अनादित्वात् संसारस्य पूर्वजन्मकृतधर्माद्यपेक्षा युक्तैव । ननु कस्मात् तदपेक्षत्वमत आह विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । ईश्वरस्य कर्मापेक्षत्वे ‘ज्योतिष्टोमेन यजेत' 'ब्राह्मणो न हन्तव्य' इति द्वयोर्विहितप्रतिषिद्ध योरवैयर्थ्यं भवति अन्यथा विधिनिषेधशास्त्रमनर्थकमेव स्यात् । एवं चेश्वराधीन- कर्तृत्वप्रतिपादकविध्यादिशास्त्रेण 'एष ह्वेव साधु कर्मे' त्यादिशास्त्रस्य न विरोध इति सिद्धम् ॥ ४२ ॥
- १७ अंशाधिकरणम
इत्थं नित्यत्वं स्वप्रकाशत्वं व्यापित्वमकर्तृत्वं चात्मनोऽभिधाय तदनन्तर तस्य ब्रह्माभेदयोग्यस्य ब्रह्मैक्यं साधयतीति हेतुहेतुमद्भावसङ्गत्येदमाह---