ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां चापि अंशो नानाव्यपदेशादन्यथा दाशकितवादित्वमधीयत एके ॥ ४३ ॥ अत्र 'तत्त्वमस्या' द्यभेद ुतिजातस्य 'य आत्मनि तिष्ठन्' इत्यादिभेद- जितेन विरोधोऽस्ति न वेति सन्देहे जीवेश्वरयोः पूर्वोक्तोपकार्योपका- रकभावस्य स्वामिभृत्यवद् भेदाधीनसम्बन्धसापेक्षत्वाद् भेदश्रुतिजातेन विरोधो- इस्तीति पूर्वः पक्ष: । सिद्धान्तरतु जीव ईश्वरस्यांश इवांशो न तु स्वाभावि- कोंऽशः तस्य ‘निष्कलम्' (श्वे. ६ - १९) इत्यादि निरंशत्वश्रवणात् । अतः कल्पि- तांशो जीवः । कुतः पुनर्जीदेश्वरयोरंशांशिभावः, 'य आत्मनि तिष्ठन्नित्यादिना तयोर्नानाव्यपदेशान्नानात्वस्य व्यंपदेशाद् अन्यथा चाप्यनानात्वस्यापि व्यपदे- शात् । तथा हि - एके शाखिन आथर्वणिकाः 'ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवा' इति दाशकितवादित्वमधीयते । दाशाः कैवर्ताः, दासा भृत्याः, कितवा द्यूतकृतः तद्भावमामनन्तीत्यतो नानात्वस्याभेदस्य च व्यपदेशः । तत्र भेदवादिश्रुतिजातस्य प्रत्यक्षसिद्धभेदानुवादेनाभेदपरत्वात् कल्पितभेदवानंशो जीव इति ॥ ४३ ॥ किञ्च - - ८२ , मन्त्रवर्णाच्च ॥ १४ ॥ 'पादोऽस्य (विश्वा ?) (सर्वा) भूतानि' (छा. ३-१२-६) इति मन्त्रवर्णात् परमेश्वरस्याविद्याकल्पितपादोंऽशो भृतशब्दवाच्यो जीव इति गम्यते ॥ ४४ ॥ अपि च- - अपि च स्मर्यते ॥ ४५ ॥ च 'ममैवांशो जीवलोके जीवभूतः सनातनः' (१९-७) इति भगवद्गीतासु चेश्वरस्याविद्याकल्पितांशो जीव इति स्मर्यते ॥ ४५ ॥ ननु जीवस्येश्वरांशत्वे तद्दुःखेनेश्वरस्य दुःखित्वं स्यादित्यत आह - प्रकाशादिवन्नैवं परः ॥ १६ ॥ , यथा जीवोऽविद्यावेशवशाद् देहाद्यात्मभावमिव गतस्तत्कृतेन दुःखेन दुः- ख्यहमित्यभिमन्यते नैवं पर ईश्वरः, प्रकाशादिवद् यथा सौरश्चान्द्रमसो वा प्र- काशो नमो व्याप्य वर्तमानो वककाष्ठाद्युपाधिकृतवक्रभावमिवापन्नोऽपि न वस्तुतो बक्रभावमापद्यते, तद्वज्जीवोऽपि न परमार्थतो दुःखित्वमभिमन्यत इत्यर्थः ॥ ४६ ॥
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/९६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति