द्वितीयाध्याये चतुर्थः पादः । ८६ ननु सृष्टेः प्रागिन्द्रियसद्भावश्रवणाद् उत्पत्तिश्रुतिर्गौणीति चेत्, तत्राह- गौण्यसम्भवात् ॥ २ ॥ गौण्या उत्पत्तिश्रुतेरसम्भवो गौण्यसम्भवस्तस्माद्, अन्यथा एकविज्ञानप्रति- ज्ञा हयितेत्यर्थः । सद्भावश्रुतिस्तु हिरण्यगर्भात्मकावान्तरप्रकृतिविषयेति न तयोत्प- त्तिश्रुतिविरोध इति भावः ॥ २ ॥ इन्द्रियोत्पत्तिर्मुख्येत्यत्र हेत्वन्तरमाह- तत्प्राक्छ्रुतेश्च ॥ ३ ॥ 'एतस्माज्जायते' (मु. २-१ - ३) इत्यादिवाक्ये जन्मवाचिपदस्य खवा - य्वादिषु मुख्यस्य तदपेक्षया प्राचीनेषु प्राणादिषु श्रुतेः श्रवणादित्यर्थः ॥ ३ ॥ ननु 'तत् तेजोऽसृजत' इति भूतमात्र श्रवणात् तत् कथमित्याशङ्कचाह-- तत्पूर्वकत्वाद्वाचः ॥ ४ ॥ यद्यपि 'तत् तेजोऽसृजत' (छा. ६-२-३) इति भूतमात्रोत्पत्तिः पठ्यते, तथापि ‘अन्नमयं हि सोम्य! मन आपोमयः प्राणस्तेजोमयी वाग्' (छा. ६-५-४) इति मनःप्राणसहिताया वाचो ब्रह्मप्रकृतिक तेजोबन्नपूर्वकत्वाभिधानादस्त्युत्पत्ति- श्रुतिः । अतो न विरोध इति सिद्धम् ॥ ४ ॥
- २ सप्तगत्यधिकरणम् ॐ
इत्थमिन्द्रियाणामुत्पत्तिं प्रसाध्य तेभ्यो जीवस्य विवेकार्थं तदाश्रितसङ्ख्यां निर्णेतुकाम आश्रया अविभावसङ्गत्वेदमाह- सप्त गतेविंशेषितत्वाच ॥ ५ ॥ 'सप्त प्राणाः प्रभवन्ति तस्माद्' (मु. २-१-८) इतीन्द्रियाणि सप्त सङ्की- र्त्यन्ते, कचिदष्टौ, क्वचिन्नव, क्वचिद् दश, क्वचिदेकादशेत्येवं सप्तत्वाष्टत्वादि- सङ्ख्याश्रुतीनां परस्परविरोधोऽस्ति न वेति सन्देहे अस्तीति पूर्वपक्ष एकदेशिसि- द्धान्तः–सप्तेन्द्रियाणि, कुतः, गतेः श्रुत्या सप्तत्वावगतेः 'सप्त वै शीर्षण्याः प्राणाः' (तै सं. ५-१-७-१) इति शीर्षण्यत्वेन विशेषितत्वाच्च । अष्टत्वादिसङ्ख्याश्रवणं त्वेकस्यैवान्तःकरणस्य वृत्तिभेदाभिप्रायामिति न श्रुतीनां विरोध इति ॥ ५ ॥ तदेकदेशिमतं दूषयति-