वृता ॥ ७१ ॥ अष्टाविंशति नक्षत्रं कलत्रं शशिनस्तथा ।। क्रमेण ताभिः सार्द्ध च चंद्रस्तिष्ठति नित्यशः ॥ २॥ सप्तविंशति| नक्षत्रं कलत्रं च श्रुतौ श्रुतम् ॥ अभिजिच्छूवणच्छाया तेनाष्टाविंशतिः स्मृता ॥ ७३ ॥ एकदा च मधौ चंद्र रोहिण्या वामया सह ॥ रेमे दिवानिशं नित्यं श्रवणा च चुकोप सा ॥ ७८ ॥ छायां च दत्त्वा चंद्राय ययौ ताततिकं भिया । ततः पितरमादाय सा चक्रे च विभागकम् ॥ ७५ ॥ बभूव तेन नक्षत्रमभिजिन्नामकं पुरा ॥ एतच्छुत्वा कृष्णमुखाच्छतधृगे च. पर्वते॥ ७६ ॥ नक्षत्रं कथितं वत्सं तिथ्या भ्रमति नित्यशः ॥ योगं च करणं चैव मद्वक्त्रेण निशामय ॥ ७७॥ विष्कंभः प्रीतिरायुष्मान्सौभाग्यः शोभन |स्तथा॥ अतिगंड सुकर्मा च धृतिः शूलस्तथैव च ॥ ७८ ॥ गंडो वृद्धिर्धवधैव व्याघातो हर्षणस्तथा । वनं सिद्धिर्यतीपातो वरीयान्परिघः शिवः ॥ ७९ ॥ सिद्धिः साध्यः शुभः शुक्रो ब्रहँद्रौ वैधृतिस्तथा ॥ कीर्तितस्ते योगगणों करणं श्रूयतामिति | ८• बवश्च बालवश्चैव कौलवस्तैतिलस्तथा गरथ वणिजथापि विष्टिश्च शकुनिस्तथा ॥ ८१ ॥ नागश्च किं स्तुत्र इति कीर्तितम् ॥नराणां चापि मासेन पितृणां च दिवानिशम् ॥ ८२ ॥ शुकं चापि दिनं तेषां कृष्णे नक्तं प्रीतिंतम् ॥ वत्सरेण नराणां च सुराणां च दिवानिशम् ॥८३दिनं तेषामुत्तरे च नक्तं च दक्षिणायने । मन्वंतरं तु दिव्यानां युगनूमेकसप्ततिः |॥ ८८ ॥ मनोरायुःपरिमितं शक्रस्यायुः प्रकीर्तितम् ॥ पंचविंशत्सहत्रं च तथा पंचशतं परम् ॥ ८६ ॥ तत्र सूर्यगतिर्नास्ति शक्रपातानुसारतः ॥ दिवानिशं चं जानंति ब्रह्मलोकनिवासिनः ॥ ८६ ॥ दंडद्वयं नरपलं शक्रपातेन तत्पलम् ॥ एवं त्रिंशद्दिनेनैव धातुर्मासः प्रकीर्तितः ॥ ८७ ॥ अम्दो द्वादशभिर्मासैरेवं तस्य शतायुषः॥ ब्रह्मणः पतनेनैव निमेषाच्छीहरेरपि - ८८ ॥ धातुः पा| तानुसारेण वैकुंठे न दिवानिशम् । तत्र सूर्यगतिनांस्ति चेवं गोलोकतः स्मृतम् ॥ ८९ ॥ वेसैंडसिनः सर्वे न वै जानंत्यहर्नि ॥ ९१ ॥ नक्तं तेजोविहीनं च हरौ च मंदिरं गते ॥ एवं कालगतिस्तत्र विष्णुलोकेस्ति संततम् ॥ ९२ ॥ालस्त्र ने
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४५९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति